stotrasangraha
hariharaputrāṣṭottaraśatanāmastotram
हरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
Verse
महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥१॥
Verse
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः । मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥२॥
Verse
लोकाध्यक्षोऽग्रणीः श्रीमान् अप्रमेयपराक्रमः । सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥३॥
Verse
नानाशास्त्रधरोऽनर्घो नानाविद्याविशारदः । नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥४॥
Verse
भूतेशः पूजितो भृत्यो भुजङ्गाभरणोत्तमः । इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥५॥
Verse
मायादेवीसुतो मान्यो महानीतो महागुणः । महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥६॥
Verse
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः । मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥७॥
Verse
देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः । महायोगी महामायी महाज्ञानी महाधिपः ॥८॥
Verse
देवशास्ता भूतशास्ता भीमहासपराक्रमः । नागहारश्च नागेशो व्योमकेशः सनातनः ॥९॥
Verse
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः । लोकाश्रयो गुणाधीशश्चतुःषष्टिकलामयः ॥१०॥
Verse
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः । त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥११॥
Verse
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः । कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥१२॥
Verse
संसारतापविच्छेत्ता पशुलोकभयङ्करः । रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥१३॥
Verse
सर्वशास्त्रार्थतत्त्वज्ञो नीतिमान् पापभञ्जनः । पुष्कलापूर्णसंयुक्तो परमात्मा सतां गतिः ॥१४॥
Verse
अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली । भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥१५॥
Verse
॥इति श्री-हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
