Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīsūryāṣṭottaraśatanāmastotram

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीसूर्यनारायणदेवतामुद्दिश्य प्रीत्यर्थं, श्रीसूर्याष्टोत्तरशतनामस्तोत्रमहामन्त्रपठनं करिष्ये ॥

Verse

अस्य श्रीसूर्याष्टोतरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्च्छन्दः, श्रीसूर्यनारायणो देवता ।

Verse

ह्रां बीजं, ह्रीं शक्तिः ह्रूं कीलकं, श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः । न्यासौ - करन्यासः हृदयन्यासः ओं ह्रां अघोर श्रीसूर्यनारायणाय - अङ्गुष्ठाभ्यां नमः - हृदयायनमः ॐ ह्रीं चतुर्वेदपारायणाय - तर्जनीभ्यां नमः - शिरसेस्वाहा ॐ ह्रूं उग्रभयङ्कराय - मध्यमाभ्यां नमः - शिखायै वषट् ॐ हैं श्रीसूर्यनारायणाय - अनामिकाभ्यां नमः - कवचाय हुं ॐ हौं कौपीनमौञ्जीधराय - कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ओं ह्रं सहस्रकिरणाय करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् भूर्भुवस्स्वरोमिति दिग्बन्धः ॥

Verse

ध्यानं सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥

Verse

लमिति पञ्चपूजां कृत्वा गुरुध्यानं कुर्यात् ।

Verse

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कस्सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रजापतिः ॥

Verse

वैशम्पायन उवाच ।

Verse

शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥१॥

Verse

धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने । नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥२॥

Verse

ॐ सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥३॥

Verse

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥४॥

Verse

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥५॥

Verse

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥६॥

Verse

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥७॥

Verse

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥८॥

Verse

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । कालाध्यक्षः वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥९॥

Verse

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥१०॥

Verse

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । जयो विशालो वरदः सर्वधातुनिषेचिता ॥११॥

Verse

सर्वभूतनिषेवितः मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥

Verse

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥१२॥

Verse

द्वादशात्मारविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१३॥

Verse

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥१४॥

Verse

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । सूर्यस्यामिततेजसः नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥१५॥

Verse

प्रोक्तमेतत्स्व्यम्भुवा शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् । धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥१६॥

Verse

सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥१७॥

Verse

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् । लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥१८॥

Verse

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः । विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥१९॥

Verse

स्वर्भुवर्भूरोमिति दिग्विमोकः ।

Verse

हरिः ओं तत्सत् ।

Verse

श्रीसूर्यनारायणपरब्रह्मार्पणमस्तु । ॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Verse

इति ब्रह्मपुराणे त्रयस्त्रिंशाध्यायान्तर्गतं सूर्यनामाष्टोत्तरशतस्तोत्रं समाप्तम् ।

śrīsūryāṣṭottaraśatanāmastotram
narasiṃhapurāṇe sūryāṣṭottaraśatanāmastotraṃ viśvakarmakṛta

Read next

More on श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

  • श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms