aSTottaranAma
śrīsūryāṣṭottaraśatanāmastotram
श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्
Verse
सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥
Verse
अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥१॥
Verse
आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥२॥
Verse
इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥३॥
Verse
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥४॥
Verse
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते । उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥५॥
Verse
ऊर्जस्वलाय वीराय निर्जराय जयाय च । ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥६॥
Verse
ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च । ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥७॥
Verse
ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे । ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥८॥
Verse
लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च । कनत्कनकभूषाय खद्योताय ते नमः ॥९॥
Verse
लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे । अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥१०॥
Verse
एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे । गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥११॥
Verse
ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये । दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥१२॥
Verse
ओजस्कराय जयिने जगदानन्दहेतवे । जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥१३॥
Verse
ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने । कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥१४॥
Verse
अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे । अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥१५॥
Verse
अहस्कराय रवये हरये परमात्मने । तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥१६॥
Verse
ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च । सौख्यप्रदाय सकलजगताम्पतये नमः ॥१७॥
Verse
नमः सूर्याय कवये नमो नारायणाय च । नमो नमः परेशाय तेजोरूपाय ते नमः ॥१८॥
Verse
ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च । ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥१९॥
Verse
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने । निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥२०॥
Verse
यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा । इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥
Verse
इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः । स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥
Verse
इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
