Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīsubrahmaṇyāṣṭottaraśatanāmastotram

श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

Verse

स्कंदोगुह षण्मुखश्च भालनेत्रसुतः प्रभुः । पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१॥

Verse

द्विषण्णेत्रश्शक्तिधरः पिशिताशा प्रभंजनः । तारकासुरसंहारि रक्षोबलविमर्दनः ॥२॥

Verse

मत्तः प्रमत्तोन्मत्तश्च सुरसैन्य सुरक्षकः । देवसेनापतिः प्राज्ञः कृपालो भक्तवत्सलः ॥३॥

Verse

उमासुतश्शक्तिधरः कुमारः क्रौंचधारिणः । सेनानीरग्निजन्मा च विशाखश्शंकरात्मजः ॥४॥

Verse

शिवस्वामि गणस्वामि सर्वस्वामि सनातनः । अनंतमूर्तिरक्षोभ्यः पार्वती प्रियनंदनः ॥५॥

Verse

गंगासुतश्शरोद्भूत आहूतः पावकात्मजः । जॄंभः प्रजॄंभः उज्जॄंभः कमलासन संस्तुतः ॥६॥

Verse

एकवर्णो द्विवर्णश्च त्रिवर्णस्सुमनोहरः । चतुर्वर्णः पंचवर्णः प्रजापतिरहह्पतिः ॥७॥

Verse

अग्निगर्भश्शमीगर्भो विश्वरेतास्सुरारिहा । हरिद्वर्णश्शुभकरो वटुश्च पटुवेषभृत् ॥८॥

Verse

पूषागभस्तिर्गहनो चंद्रवर्ण कलाधरः । मायाधरो महामायी कैवल्य श्शंकरात्मजः ॥९॥

Verse

विश्वयोनिरमेयात्मा तेजोयोनिरनामयः । परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥१०॥

Verse

पुलिंद कन्याभर्ताच महासारस्वतवृतः । अश्रिताखिलदाताच चोरघ्नो रोगनाशनः ॥११॥

Verse

अनंतमूर्तिरानंदश्शिखंडीकृतकेतनः । डंभः परमडंभश्च महाडंभोवृषाकपिः ॥१२॥

Verse

कारणोत्पत्तिदेहश्च कारणातीत विग्रहः । अनीश्वरोऽमृतःप्राणः प्राणायाम परायणः ॥१३॥

Verse

विरुद्धहंत वीरघ्नो रक्तश्यामगलोऽपिच । सुब्रह्मण्यो गुहप्रीतः ब्रह्मण्यो ब्राह्मणप्रियः ॥१४॥

Verse

।

Verse

इति श्री सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

subrahmaṇyaṣaḍakṣarāṣṭottaraśatanāmastotram
śrīsūryāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms