aSTottaranAma
subrahmaṇyaṣaḍakṣarāṣṭottaraśatanāmastotram
सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रम्
Verse
शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः । शरकाननसम्भूतः शर्वरीशमुखः शमः ॥१॥
Verse
शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः । शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥२॥
Verse
शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः । शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥३॥
Verse
रणाग्रणि रक्षणकृद्रक्षोबलविमर्दनः । रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥४॥
Verse
रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः । रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥५॥
Verse
रमाकलत्रजामाता रहस्यो रघुपूजितः । रसकोणान्त रालस्थो रजोमूर्ती रतिप्रदः ॥६॥
Verse
वसुदो वटुरूपश्च वसन्तऋतुपूजितः । वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥७॥
Verse
वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः । वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥८॥
Verse
वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः । वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥९॥
Verse
नकाररूपो नलिनो नकारयुतमन्त्रकः । नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥१०॥
Verse
नटेशपुत्रो नम्रभ्रूर्नक्षत्र ग्रहनायकः । नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥११॥
Verse
नवनागो नगहरो नवग्रहसुवन्दितः । नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥१२॥
Verse
भद्रप्रदश्च भगवान् भवारण्यदवानलः । भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥१३॥
Verse
भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः । भक्तिगम्यो भक्तनिधिर्भयक्लेश विमोचनः ॥१४॥
Verse
भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः । भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥१५॥
Verse
वरुणो वरुणाराध्यो वलाराति मुखस्तुतः । वज्रशक्त्यायुधोपेतो वरो वक्षः स्थलोज्ज्वलः ॥१६॥
Verse
वस्तुरूपो वशिध्येयो वलित्रय विराजितः । वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥१७॥
Verse
वचोरूपो वचनदो वचोऽतीतचरित्रकः । वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥१८॥
Verse
इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
