stotrasangraha
rāmastotram
रामस्तोत्रम्
Verse
नमस्ते रामचन्द्राय लोकानुग्रहकारिणे । अरावणं जगत्कर्तुमवतीर्णाय भूतले ॥६३॥
Verse
ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे । नमस्ते जितमारीच सुबाहुप्राणहारिणे ॥६४॥
Verse
अहल्यामुक्तिसन्दायिपादपङ्कजरेणवे । नमस्ते हरकोदण्डलीलाभञ्जनकारिणे ॥६५॥
Verse
नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने । नमस्ते रेणुकापुत्रपराजयविधायिने ॥६६॥
Verse
सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् । सत्यं पितृवचः कर्तुं नमो वनमुपेयुषे ॥६७॥
Verse
भरतप्रार्थनादत्तपादुकायुगुलाय ते । नमस्ते शरभङ्गस्य स्वर्गप्राप्त्यैकहेतवे ॥६८॥
Verse
नमो विराधसंहर्त्रे गृध्रराजसखाय ते । मायामृगमहाक्रूरमारीचाङ्गविदारिणे ॥६९॥
Verse
सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् । जटायुषं तु सन्दह्य तत्कैवल्यप्रदायिने ॥७०॥
Verse
नमः कबन्धसंहर्त्रे शबरीपूजिताङ्घ्रये । प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते ॥७१॥
Verse
नमः कृतवते सेतुं समुद्रे वरुणालये । सर्वराक्षससंहर्त्रे रावणप्राणहारिणे ॥७२॥
Verse
संसाराम्बुधिसन्तारपोतपादाम्बुजाय ते । नमो भक्तार्तिसंहर्त्रे सच्चिदानन्दरूपिणे ॥७३॥
Verse
नमस्ते रामभद्राय जगतामृद्धिहेतवे । रामादिपुण्यनामानि जपतां पापहारिणे ॥७४॥
Verse
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारिणे । नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित ॥७५॥
Verse
ससीताय नमस्तुभ्यं विभीषणसुखप्रद । लङ्केश्वरवधाद्राम पालितं हि जगत्त्वया ॥७६॥
Verse
रक्ष रक्ष जगन्नाथ पाह्यस्माञ्जानकीपते । स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ॥७७॥
Verse
य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम् । त्रिसन्ध्यं पठते भक्त्या भुक्तिं मुक्तिं च विन्दति ॥७८॥
Verse
प्रयाणकाले पठतो न भीतिरुपजायते । एतत् स्तोत्रस्य पठनाद् भूतवेतालकादयः ॥७९॥
Verse
नश्यन्ति रोगा नश्यन्ति नश्यते पापसञ्चयः । पुत्रकामो लभेत्पुत्रं कन्या विन्दति सत्पतिम् ॥८०॥
Verse
मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत् । सर्वान् कामानवाप्नोति पठन् भक्त्या त्विमं स्तवम् ॥८१॥
Verse
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिङ्गप्रतिष्ठाविधिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायतः मुनिभिः कृतं रामस्तोत्रं सम्पूर्णम्॥
