stotrasangraha
paraśurāmakṛta-rāmastotram
परशुरामकृत-रामस्तोत्रम्
Verse
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः । मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् ॥२९॥
Verse
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो । ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः ॥३०॥
Verse
त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः । निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥३१॥
Verse
यथा जले फेनजालं धूमो वह्नौ तथा त्वयि । त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो ॥३२॥
Verse
यावन्मायावृता लोकास्तावत्त्वां न विजानते । अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी ॥३३॥
Verse
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता । चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते ॥३४॥
Verse
यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् । तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् ॥३५॥
Verse
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति । अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते ॥३६॥
Verse
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा । जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा ॥३७॥
Verse
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति । तावत् संसारदुःखौघान्न निवर्तेन्नरः सदा ॥३८॥
Verse
तत् सङ्गलब्धया भक्त्या यदा त्वां समुपासते । तदा माया शनैर्याति तानवं प्रतिपद्यते ॥३९॥
Verse
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते । वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद् विमुच्यते ॥४०॥
Verse
तस्मात् त्वद्भक्तिहीनानां कल्पकोटिशतैरपि । न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा ॥४१॥
Verse
अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि । स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति ॥४२॥
Verse
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः । पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् ॥४३॥
Verse
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन । नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते ॥४४॥
Verse
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया । तत् सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते ॥४५॥
Verse
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः । प्रसन्नोऽस्मि तव ब्रह्मन् यत् ते मनसि वर्तते ॥४६॥
Verse
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् । ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ॥४७॥
Verse
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन । त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे ॥४८॥
Verse
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा । त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥४९॥
Verse
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् । पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥५०॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमे सर्गे श्री-परशुरामकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥
