stotrasangraha
nārada-rāma-saṃvādaḥ
नारद-राम-संवादः
Verse
एकदा सुखमासीनं रामं स्वान्तःपुराजिरे । सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम् ॥१॥
Verse
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् । सीतया रत्नदण्डेन चामरेणाथ वीजितम् ॥२॥
Verse
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् । नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥३॥
Verse
शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः । अतर्कितमुपायातो नारदो दिव्यदर्शनः ॥४॥
Verse
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः । ननाम शिरसा भूमौ सीतया सह भक्तिमान् ॥५॥
Verse
उवाच नारदं रामः प्रीत्या परमया युतः । संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् । अस्माकं विषयासक्तचेतसां नितरां मुने ॥६॥
Verse
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः । संसारिणाऽपि हि मुने लभ्यते सत्समागमः ॥७॥
Verse
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर । किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः ॥८॥
Verse
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् । किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः ॥९॥
Verse
संसार्यहमिति प्रोक्तं सत्यमेतत् त्वया विभो । जगतामादिभूता या सा माया गृहिणी तव ॥१०॥
Verse
त्वत् सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः । त्वदाश्रया सदा भाति माया या त्रिगुणात्मिका ॥११॥
Verse
सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः । लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः ॥१२॥
Verse
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा । ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा ॥१३॥
Verse
भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा । शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् ॥१४॥
Verse
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो । निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा ॥१५॥
Verse
राम त्वमेव वरुणो भार्गवी जानकी शुभा । वायुस्त्वं राम सीता तु सदागतिरितीरिता ॥१६॥
Verse
कुबेरस्त्वं राम सीता सर्वसम्पत्प्रकीर्तिता । रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् ॥१७॥
Verse
लोके स्त्रीवाचकं यावत् तत् सर्वं जानकी शुभा । पुन्नामवाचकं यावत् तत् सर्वं त्वं हि राघव ॥१८॥
Verse
तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन ॥१९॥
Verse
त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते । तस्मान्महान्स्ततः सूत्रं लिङ्गं सर्वात्मकं ततः ॥२०॥
Verse
अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च । लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् ॥२१॥
Verse
स एव जीवसंज्ञश्च लोके भाति जगन्मयः । अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते ॥२२॥
Verse
स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः । एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः ॥२३॥
Verse
जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते । तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम ॥२४॥
Verse
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् । त्वय्येव लीयते कृत्स्नं तस्मात् त्वं सर्वकारणम् ॥२५॥
Verse
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् । परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते ॥२६॥
Verse
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः । त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् ॥२७॥
Verse
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजङ्गवत् ॥२८॥
Verse
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् । तस्मात् त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि ॥२९॥
Verse
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः । अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो ॥३०॥
Verse
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो । अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव ॥३१॥
Verse
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः । उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् ॥३२॥
Verse
रावणस्य वधार्थाय जातोऽसि रघुसत्तम । इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति ॥३३॥
Verse
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि । प्रतिज्ञा ते कृता राम भूभारहरणाय वै ॥३४॥
Verse
तत् सत्यं कुरु राजेन्द्र सत्यसन्धस्त्वमेव हि । श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् ॥३५॥
Verse
शृणु नारद मे किञ्चिद् विद्यतेऽविदितं क्वचित् । प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः ॥३६॥
Verse
किन्तु कालानुरोधेन तत् तत् प्रारब्धसङ्क्षयात् । हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् ॥३७॥
Verse
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् । चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ॥३८॥
Verse
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् । एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह ॥३९॥
Verse
प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम् । अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः ॥४०॥
Verse
संवादं पठति शृणोति संस्मरेद्वा यो नित्यं मुनिवररामयोः सभक्त्या । सम्प्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण ॥४१॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे प्रथमः सर्गे नारद-राम-संवादः सम्पूर्णः॥
