stotrasangraha
rāma-sambhāṣaṇam
राम-सम्भाषणम्
Verse
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् । यदि सत्यं भवेत् तत्र आयासः सफलश्च ते ॥१९॥
Verse
भोगा मेघवितानस्थविद्युल्लेखेव चञ्चलाः । आयुरप्यग्निसन्तप्तलोहस्थजलबिन्दुवत् ॥२०॥
Verse
यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते । तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥२१॥
Verse
करोति दुःखेन हि कर्मतन्त्रं शरीरभोगार्थमहर्निशं नरः । देहस्तु भिन्नः पुरुषात् समीक्ष्यते को वात्र भोगः पुरुषेण भुज्यते ॥२२॥
Verse
पितृमातृसुतभ्रातृदारबन्ध्वादिसङ्गमः । प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः ॥२३॥
Verse
छायेव लक्ष्मीश्चपला प्रतीता तारुण्यमम्बूर्मिवदध्रुवं च । स्वप्नोपमं स्त्रीसुखमायुरल्पं तथाऽपि जन्तोरभिमान एषः ॥२४॥
Verse
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला । गन्धर्वनगरप्रख्या मूढस्तामनुवर्तते ॥२५॥
Verse
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः । दृष्ट्वाऽन्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते ॥२६॥
Verse
स एव दिवसः सैव रात्रिरित्येव मूढधीः । भोगाननुपतत्येव कालवेगं न पश्यति ॥२७॥
Verse
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् । सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो ॥२८॥
Verse
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते । मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते ॥२९॥
Verse
देहेऽहम्भावमापन्नो राजाहं लोकविश्रुतः । इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसंज्ञिते ॥३०॥
Verse
त्वगस्थिमान्सविण्मूत्ररेतोरक्तादिसंयुतः । विकारी परिणामी च देह आत्मा कथं वद ॥३१॥
Verse
यमास्थाय भवान्ल्लोकं दग्धुमिच्छति लक्ष्मण । देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि ॥३२॥
Verse
देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता । नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते ॥३३॥
Verse
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका । तस्माद् यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः । कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन ॥३४॥
Verse
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा । येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत्सखीन् ॥३५॥
Verse
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज ॥३६॥
Verse
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी । सन्तोषो नन्दनवनं शान्तिरेव हि कामधुक् ॥३७॥
Verse
तस्माच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते । देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः ॥३८॥
Verse
आत्मा शुद्धः स्वयञ्ज्योतिरविकारी निराकृतिः । यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः ॥३९॥
Verse
तावत् संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः । तस्मात् त्वं सर्वदा भिन्नमात्मानं हृदि भावय ॥४०॥
Verse
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः । भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा ॥४१॥
Verse
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे । बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव ॥४२॥
Verse
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः । एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा ॥४३॥
Verse
संसारदुःखैरखिलैर्बाध्यसे न कदाचन । त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा ॥४४॥
Verse
समागमं प्रतीक्षस्व न दुःखैः पीड्यसे चिरम् । न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् ॥४५॥
Verse
यथा प्रवाहपतितप्लवानां सरितां तथा । चतुर्दशसमा सङ्ख्या क्षणार्धमिव जायते ॥४६॥
Verse
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः । एवं चेत् सुखसंवासो भविष्यति वने मम ॥४७॥
Verse
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् । उत्थाप्याङ्के समावेश्य आशीर्भिरभ्यनन्दयत् ॥४८॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे चतुर्थे सर्गे राम-सम्भाषणं सम्पूर्णम्॥
