Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

lakṣmaṇa-sambhāṣaṇam

लक्ष्मण-सम्भाषणम्

Verse

सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः । लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् ॥१॥

Verse

शयानं कुशपत्रौघसंस्तरे सीतया सह । यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे ॥२॥

Verse

कैकेयी रामदुःखस्य कारणं विधिना कृता । मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् ॥३॥

Verse

तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम । कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च ॥४॥

Verse

स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः ॥५॥

Verse

सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ॥६॥

Verse

सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः । स्वयमेवाचरन् कर्म तथा तत्र विभाव्यते ॥७॥

Verse

सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः । यद्यद् यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् ॥८॥

Verse

न मे भोगागमे वाञ्छा न मे भोगविवर्जने । आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् ॥९॥

Verse

स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा । कृतं शुभाशुभं कर्म भोज्यं तत् तत्र नान्यथा ॥१०॥

Verse

अलं हर्षविषादाभ्यां शुभाशुभफलोदये । विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः ॥११॥

Verse

सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते । शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् ॥१२॥

Verse

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । द्वयमेतद्धि जन्तूनामलङ्घ्यं दिनरात्रिवत् ॥१३॥

Verse

सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् । द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् ॥१४॥

Verse

तस्माद् धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु । न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् ॥१५॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे षष्ठे सर्गे लक्ष्मण-सम्भाषणं सम्पूर्णम्॥

rāma-sambhāṣaṇam
vālmīkīrita-rāmasthānavarṇanam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms