Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vālmīkīrita-rāmasthānavarṇanam

वाल्मीकीरित-रामस्थानवर्णनम्

Verse

त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् । तवापि सर्वभूतानि निवाससदनानि हि ॥५२॥

Verse

एवं साधारणं स्थानमुक्तं ते रघुनन्दन । सीतया सहितस्येति विशेषं पृच्छतस्तव । तद्वक्ष्यामि रघुश्रेष्ठ यत् ते नियतमन्दिरम् ॥५३॥

Verse

शान्तानां समदृष्टीनामद्वेष्टॄणां च जन्तुषु । त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् ॥५४॥

Verse

धर्माधर्मान् परित्यज्य त्वामेव भजतोऽनिशम् । सीतया सह ते राम तस्य हृत्सुखमन्दिरम् ॥५५॥

Verse

त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः । निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् ॥५६॥

Verse

निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः । समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् ॥५७॥

Verse

त्वयि दत्तमनोबुद्धिर्यः सन्तुष्टः सदा भवेत् । त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् ॥५८॥

Verse

यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यति । सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् ॥५९॥

Verse

षड्भावादिविकारान् यो देहे पश्यति नात्मनि । क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते ॥६०॥

Verse

संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् ॥६१॥

Verse

पश्यन्ति ये सर्वगुहाशयस्थं त्वां चिद्घनं सत्यमनन्तमेकम् । अलेपकं सर्वगतं वरेण्यं तेषां हृदब्जे सह सीतया वस ॥६२॥

Verse

निरन्तराभ्यासदृढीकृतात्मनां त्वत्पादसेवापरिनिष्ठितानाम् । त्वन्नामकीर्त्या हतकल्मषाणां सीतासमेतस्य गृहं हृदब्जे ॥६३॥

Verse

राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् । यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् ॥६४॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे षष्ठे सर्गे वाल्मीकीरित-रामस्थानवर्णनं सम्पूर्णम्॥

lakṣmaṇa-sambhāṣaṇam
vasiṣṭhopadeśaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms