Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vasiṣṭhopadeśaḥ

वसिष्ठोपदेशः

Verse

आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः॥९५॥

Verse

शरीरं जडमत्यर्थमपवित्रं विनश्वरम् । विचार्यमाणे शोकस्य नावकाशः कथञ्चन ॥९६॥

Verse

पिता वा तनयो वाऽपि यदि मृत्युवशं गतः । मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् ॥९७॥

Verse

निःसारे खलु संसारे वियोगो ज्ञानिनां यदा । भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च ॥९८॥

Verse

जन्मवान् यदि लोकेऽस्मिन्स्तर्हि तं मृत्युरन्वगात् । तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा ॥९९॥

Verse

स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ । विजानन्नप्यविद्वान् यः कथं शोचति बान्धवान् ॥१००॥

Verse

ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः । शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते ॥१०१॥

Verse

चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् । आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव ॥१०२॥

Verse

देही प्राक्तनदेहोत्थकर्मणा देहवान् पुनः । तद्देहोत्थेन च पुनरेवं देहः सदात्मनः ॥१०३॥

Verse

यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् । तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् ॥१०४॥

Verse

भजत्येव सदा तत्र शोकस्यावसरः कुतः । आत्मा न म्रियते जातु जायते न च वर्धते ॥१०५॥

Verse

षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः । आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः ॥१०६॥

Verse

एक एव परो ह्यात्मा ह्यद्वितीयः समः स्थितः । इत्यात्मानं दृढं ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् ॥१०७॥

Verse

तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह । कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन ॥१०८॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे सप्तमे सर्गे वसिष्ठोपदेशः सम्पूर्णः॥

vālmīkīrita-rāmasthānavarṇanam
virādhakṛtaṃ rāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms