stotrasangraha
virādhakṛtaṃ rāmastotram
विराधकृतं रामस्तोत्रम्
Verse
श्रीराम राजीवदलायताक्ष विद्याधरोऽहं विमलप्रकाशः । दुर्वाससाकारणकोपमूर्तिना शप्तः पुरा सोऽद्य विमोचितस्त्वया ॥३८॥
Verse
इतः परं त्वच्चरणारविन्दयोः स्मृतिः सदा मेऽस्तु भवोपशान्तये । त्वन्नामसङ्कीर्तनमेव वाणी करोतु मे कर्णपुटं त्वदीयम् ॥३९॥
Verse
कथामृतं पातु करद्वयं ते पादारविन्दार्चनमेव कुर्यात् । शिरश्च ते पादयुगप्रणामं करोतु नित्यं भवदीयमेवम् ॥४०॥
Verse
नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये । आत्मारामाय रामाय सीतारामाय वेधसे ॥४१॥
Verse
प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया । देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते ॥४२॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमे सर्गे विराधकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥
