stotrasangraha
sutīkṣṇakṛtaṃ rāmastotram
सुतीक्ष्णकृतं रामस्तोत्रम्
Verse
त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे । संसारसिन्धुतरणामलपोतपाद रामाभिराम सततं तव दासदासः ॥२७॥
Verse
मामद्य सर्वजगतामविगोचरस्त्वं त्वन्मायया सुतकलत्रगृहान्धकूपे । मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह- पाशानुबद्धहृदयं स्वयमागतोऽसि ॥२८॥
Verse
त्वं सर्वभूतहृदयेषु कृतालयोऽपि त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् । त्वन्मन्त्रसाधनपरेष्वपयाति माया सेवानुरूपफलदोऽसि यथा महीपः ॥२९॥
Verse
विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः त्वं मायया त्रिगुणया विधिरीशविष्णू । भासीश मोहितधियां विविधाकृतिस्त्वं यद्वद्रविः सलिलपात्रगतो ह्यनेकः ॥३०॥
Verse
प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं पश्यामि राम तमसः परतः स्थितस्य । दृग्रूपतस्त्वमसतामविगोचरोऽपि त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः ॥३१॥
Verse
पश्यामि राम तव रूपमरूपिणोऽपि मायाविडम्बनकृतं सुमनुष्यवेषम् । कन्दर्पकोटिसुभगं कमनीयचाप- बाणं दयार्द्रहृदयं स्मितचारुवक्त्रम् ॥३२॥
Verse
सीतासमेतमजिनाम्बरमप्रधृष्यं सौमित्रिणा नियतसेवितपादपद्मम् । नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं मद्भागधेयमनिशं प्रणमामि रामम् ॥३३॥
Verse
जानन्तु राम तव रूपमशेषदेश- कालाद्युपाधिरहितं घनचित्प्रकाशम् । प्रत्यक्षतोऽद्य मम गोचरमेतदेव रूपं विभातु हृदये न परं विकाङ्क्षे ॥३४॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमे सर्गे सुतीक्ष्णकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥
