stotrasangraha
agastyakṛta-rāmastutiḥ
अगस्त्यकृत-रामस्तुतिः
Verse
शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् । तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः ॥१०॥
Verse
इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् । अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् ॥११॥
Verse
आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः । प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम् ॥१२॥
Verse
रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः । सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि ॥१३॥
Verse
द्रुतमुत्थाप्य मुनिराड् राममालिङ्ग्य भक्तितः । तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः ॥१४॥
Verse
गृहीत्वा करमेकेन करेण रघुनन्दनम् । जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः ॥१५॥
Verse
सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् । भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा ॥१६॥
Verse
सुखोपविष्टमेकान्ते रामं शशिनिभाननम् । कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः ॥१७॥
Verse
त्वदागमनमेवाहं प्रतीक्षन् समवस्थितः । यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा ॥१८॥
Verse
भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च । तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन् । वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् ॥१९॥
Verse
सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः । त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते ॥२०॥
Verse
त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा । अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः ॥२१॥
Verse
मूलप्रकृतिरित्येके प्राहुर्मायेति केचन । अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते ॥२२॥
Verse
त्वया सङ्क्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते । महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत् ॥२३॥
Verse
अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत् । सात्त्विको राजसश्चैव तामसश्चेति भण्यते ॥२४॥
Verse
तामसात् सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम् । स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह ॥२५॥
Verse
राजसानीन्द्रियाण्येव सात्त्विका देवता मनः । तेभ्योऽभवत् सूत्ररूपं लिङ्गं सर्वगतं महत् ॥२६॥
Verse
ततो विराट् समुत्पन्नः स्थूलाद्भूतकदम्बकात् । विराजः पुरुषात् सर्वं जगत् स्थावरजङ्गमम् ॥२७॥
Verse
देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु । त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् ॥२८॥
Verse
सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते । लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः ॥२९॥
Verse
जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः । तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः ॥३०॥
Verse
सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन । अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव ॥३१॥
Verse
राम माया द्विधा भाति विद्याऽविद्येति ते सदा । प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः । निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः ॥३२॥
Verse
त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृताः । अविद्यावशगा ये तु नित्यं संसारिणश्च ते । विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि ॥३३॥
Verse
लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये । विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन ॥३४॥
Verse
अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः । त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् ॥३५॥
Verse
किं राम बहुनोक्तेन सारं किञ्चिद् ब्रवीमि ते । साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता ॥३६॥
Verse
साधवः समचित्ता ये निःस्पृहा विगतैषिणः । दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः ॥३७॥
Verse
इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः । सन्न्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः ॥३८॥
Verse
यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् । सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः ॥३९॥
Verse
समुदेति ततो भक्तिस्त्वयि राम सनातने । त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् ॥४०॥
Verse
उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः । तस्माद् राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा ॥४१॥
Verse
सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः । अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् ॥४२॥
Verse
अद्य मे क्रतवः सर्वे बभूवुः सफलाः प्रभो । दीर्घकालं मया तप्तमनन्यमतिना तपः । तस्येह तपसो राम फलं तव यदर्चनम् ॥४३॥
Verse
सदा मे सीतया सार्धं हृदये वस राघव । गच्छतस्तिष्ठतो वाऽपि स्मृतिः स्यान्मे सदा त्वयि ॥४४॥
Verse
इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः । ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा ॥४५॥
Verse
अक्षय्यौ बाणतूणीरौ खड्गो रत्नविभूषितः । जहि राघव भूभारभूतं राक्षसमण्डलम् ॥४६॥
Verse
यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः । इतो योजनयुग्मे तु पुण्यकाननमण्डितः ॥४७॥
Verse
अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे । नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह ॥४८॥
Verse
तत्रैव बहुकार्याणि देवानां कुरु सत्पते ॥४९॥
Verse
श्रुत्वा तदाऽगस्त्यसुभाषितं वचः स्तोत्रं च तत्त्वार्थसमन्वितं विभुः । मुनिं समाभाष्य मुदान्वितो ययौ प्रदर्शितं मार्गमशेषविद्धरिः ॥५०॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे तृतीये सर्गे अगस्त्यकृतं श्री-रामस्तुतिः सम्पूर्णा॥
