stotrasangraha
jñāna-vijñānopadeśaḥ
ज्ञान-विज्ञानोपदेशः
Verse
शृणु वक्ष्यामि ते वत्स गुह्याद् गुह्यतरं परम् । यद्विज्ञाय नरो जह्यात् सद्यो वैकल्पकं भ्रमम् ॥१९॥
Verse
आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् । ज्ञानस्य साधनं पश्चाज्ज्ञानविज्ञानसंयुतम् ॥२०॥
Verse
ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् । अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत् ॥२१॥
Verse
सैव माया तयैवासौ संसारः परिकल्प्यते । रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन ॥२२॥
Verse
विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् । लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः ॥२३॥
Verse
अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति । मायया कल्पितं विश्वं परमात्मनि केवले ॥२४॥
Verse
रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन । श्रूयते दृश्यते यद्यत् स्मर्यते वा नरैः सदा ॥२५॥
Verse
असदेव हि तत् सर्वं यथा स्वप्नमनोरथौ । देह एव हि संसारवृक्षमूलं दृढं स्मृतम् ॥२६॥
Verse
तन्मूलः पुत्रदारादिबन्धः किं तेऽन्यथाऽऽत्मनः ॥२७॥
Verse
देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् । अहङ्कारश्च बुद्धिश्च इन्द्रियाणि तथा दश ॥२८॥
Verse
चिदाभासो मनश्चैव मूलप्रकृतिरेव च । एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते ॥२९॥
Verse
एतैर्विलक्षणो जीवः परमात्मा निरामयः । तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु ॥३०॥
Verse
जीवश्च परमात्मा च पर्यायो नात्र भेदधीः । मानाभावस्तथा दम्भहिंसादिपरिवर्जनम् ॥३१॥
Verse
पराक्षेपादिसहनं सर्वत्रावक्रता तथा । मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् ॥३२॥
Verse
बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु । मनोवाक्कायदण्डश्च विषयेषु निरीहता ॥३३॥
Verse
निरहङ्कारता जन्मजराद्यालोचनं तथा । असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु ॥३४॥
Verse
इष्टानिष्टागमे नित्यं चित्तस्य समता तथा । मयि सर्वात्मके रामे ह्यनन्यविषया मतिः ॥३५॥
Verse
जनसम्बाधरहितशुद्धदेशनिषेवणम् । प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत् ॥३६॥
Verse
आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् । उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्ययः ॥३७॥
Verse
बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणः । चिदात्माऽहं नित्यशुद्धो बुद्ध एवेति निश्चयम् ॥३८॥
Verse
येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे । विज्ञानं च तदैवैतत् साक्षादनुभवेद्यदा ॥३९॥
Verse
आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः । बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः ॥४०॥
Verse
स्वप्रकाशेन देहादीन् भासयन्ननपावृतः । एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः ॥४१॥
Verse
असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते । आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत् ॥४२॥
Verse
आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि । लीयते कार्यकरणैः सहैव परमात्मनि ॥४३॥
Verse
सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि । इदं मोक्षस्वरूपं ते कथितं रघुनन्दन ॥४४॥
Verse
ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः । किन्त्वेतद्दुर्लभं मन्ये मद्भक्तिविमुखात्मनाम् ॥४५॥
Verse
चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते । पदं दीपसमेतानां दृश्यते सम्यगेव हि ॥४६॥
Verse
एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते । मद्भक्तेः कारणं किञ्चिद् वक्ष्यामि शृणु तत्त्वतः ॥४७॥
Verse
मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरम् । एकादश्युपवासादि मम पर्वानुमोदनम् ॥४८॥
Verse
मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः । मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् ॥४९॥
Verse
एवं सततयुक्तानां भक्तिरव्यभिचारिणी । मयि सञ्जायते नित्यं ततः किमवशिष्यते ॥५०॥
Verse
अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च । वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् ॥५१॥
Verse
कथितं सर्वमेतत्ते तव प्रश्नानुसारतः । अस्मिन्मनः समाधाय यस्तिष्ठेत् स तु मुक्तिभाक् ॥५२॥
Verse
न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि । मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः ॥५३॥
Verse
य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः । अज्ञानपटलध्वान्तं विधूय परिमुच्यते ॥५४॥
Verse
भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा । सङ्गं यः कुरुते सदोद्यतमतिस्तत् सेवनानन्यधीः मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥५५॥
Verse
॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे चतुर्थः सर्गः॥
