stotrasangraha
jaṭāyukṛta-rāmastotram
जटायुकृत-रामस्तोत्रम्
Verse
अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥४४॥
Verse
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् । नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥४५॥
Verse
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् । शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये ॥४६॥
Verse
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् । दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये ॥४७॥
Verse
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम् । भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये ॥४८॥
Verse
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् । सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपद्ये ॥४९॥
Verse
परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् । परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपद्ये ॥५०॥
Verse
स्मितरुचिरविकासिताननाब्ज- मतिसुलभं सुरराजनीलनीलम् । सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥५१॥
Verse
हरिकमलजशम्भुरूपभेदात् त्वमिह विभासि गुणत्रयानुवृत्तः । रविरिव जलपूरितोदपात्रे- ष्वमरपतिस्तुतिपात्रमीशमीडे ॥५२॥
Verse
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् । यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥५३॥
Verse
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद् रघूत्तमः । उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥५४॥
Verse
शृणोति य इदं स्तोत्रं लिखेद् वा नियतः पठेत् । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥५५॥
Verse
इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः । रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम् ॥५६॥
Verse
॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे अष्टमे सर्गे जटायुकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥
