Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kabandhakṛta-rāmastotram

कबन्धकृत-रामस्तोत्रम्

Verse

स्तोतुमुत् सहते मेऽद्य मनो रामातिसम्भ्रमात् । त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम् ॥३०॥

Verse

सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम् । दृग्रूपमितरत् सर्वं दृश्यं जडमनात्मकम् । तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो ॥३१॥

Verse

बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते । बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम् ॥३२॥

Verse

आरोप्यतेऽज्ञानवशान्निर्विकारेऽखिलात्मनि । हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम् ॥३३॥

Verse

भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम् । भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् ॥३४॥

Verse

स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते । सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः ॥३५॥

Verse

त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः । पातालं ते पादमूलं पार्ष्णिस्तव महातलम् ॥३६॥

Verse

रसातलं ते गुल्फौ तु तलातलमितीर्यते । जानुनी सुतलं राम ऊरू ते वितलं तथा ॥३७॥

Verse

अतलं च मही राम जघनं नाभिगं नभः । उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते ॥३८॥

Verse

वदनं जनलोकस्ते तपस्ते शङ्खदेशगम् । सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो ॥३९॥

Verse

इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती । अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः ॥४०॥

Verse

चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः । भ्रूभङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् ॥४१॥

Verse

रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय । यमस्ते दंष्ट्रदेशस्थो नक्षत्राणि द्विजालयः ॥४२॥

Verse

हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम् । धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः ॥४३॥

Verse

निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम । समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो ॥४४॥

Verse

रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो । महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव ॥४५॥

Verse

यदस्मिन् स्थूलरूपे ते मनः सन्धार्यते नरैः । अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन ॥४६॥

Verse

अतोऽहं राम रूपं ते स्थूलमेवानुभावये । यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत् ॥४७॥

Verse

तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः । तदप्यास्तां तवैवाहमेतद्रूपं विचिन्तये ॥४८॥

Verse

धनुर्बाणधरं श्यामं जटावल्कलभूषितम् । अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् ॥४९॥

Verse

इदमेव सदा मे स्यान्मानसे रघुनन्दन ॥५०॥

Verse

सर्वज्ञः शङ्करः साक्षात्पार्वत्या सहितः सदा । त्वद्रूपमेव सततं ध्यायन्नास्ते रघूत्तम । मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम् ॥५१॥

Verse

रामरामेत्युपदिशन् सदा सन्तुष्टमानसः । अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः ॥५२॥

Verse

सर्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः । नमस्ते रामभद्राय वेधसे परमात्मने ॥५३॥

Verse

अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित । त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते ॥५४॥

Verse

तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ । याहि मे परमं स्थानं योगिगम्यं सनातनम् ॥५५॥

Verse

जपन्ति ये नित्यमनन्यबुद्ध्या भक्त्या त्वदुक्तं स्तवमागमोक्तम् । तेऽज्ञानसम्भूतभवं विहाय मां यान्ति नित्यानुभवानुमेयम् ॥५६॥

Verse

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे नवमे सर्गे कबन्धकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥

jaṭāyukṛta-rāmastotram
navavidhabhaktivarṇanam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms