Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

navavidhabhaktivarṇanam

नवविधभक्तिवर्णनम्

Verse

पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः । न कारणं मद्भजने भक्तिरेव हि कारणम् ॥२०॥

Verse

यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः । नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखैः सदा ॥२१॥

Verse

तस्माद् भामिनि सङ्क्षेपाद्वक्ष्येऽहं भक्तिसाधनम् ॥२२॥

Verse

सतां सङ्गतिरेवात्र साधनं प्रथमं स्मृतम् । द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणम् । व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत् ॥२३॥

Verse

आचार्योपासनं भद्रे सद्बुद्ध्याऽमायया सदा । पञ्चमं पुण्यशीलत्वं यमादि नियमादि च ॥२४॥

Verse

निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम् । मम मन्त्रोपासकत्वं साङ्गं सप्तममुच्यते ॥२५॥

Verse

मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः । बाह्यार्थेषु विरागित्वं शमादिसहितं तथा ॥२६॥

Verse

अष्टमं नवमं तत्त्वविचारो मम भामिनि । एवं नवविधा भक्तिः साधनं यस्य कस्य वा ॥२७॥

Verse

स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा । भक्तिः सञ्जायते प्रेमलक्षणा शुभलक्षणे ॥२८॥

Verse

भक्तौ सञ्जातमात्रायां मत्तत्त्वानुभवस्तदा । ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि ॥२९॥

Verse

स्यात्तस्मात्कारणं भक्तिर्मोक्षस्येति सुनिश्चितम् । प्रथमं साधनं यस्य भवेत् तस्य क्रमेण तु ॥३०॥

Verse

भवेत् सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितम् । यस्मान्मद्भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः ॥३१॥

Verse

इतो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः।

Verse

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे दशमे सर्गे श्रीरामोक्त नवविधभक्तिवर्णनं सम्पूर्णम्॥

kabandhakṛta-rāmastotram
sugrīvakṛta-rāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms