stotrasangraha
sugrīvakṛta-rāmastotram
सुग्रीवकृत-रामस्तोत्रम्
Verse
देव त्वं जगतां नाथः परमात्मा न संशयः । मत्पूर्वकृतपुण्यौघैः सङ्गतोऽद्य मया सह ॥७६॥
Verse
त्वां भजन्ति महात्मानः संसारविनिवृत्तये । त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम् ॥७७॥
Verse
दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम् । अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे ॥७८॥
Verse
आनन्दानुभवं त्वाऽद्य प्राप्तोऽहं भाग्यगौरवात् । मृदर्थं यतमानेन निधानमिव सत्पते ॥७९॥
Verse
अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः । यज्ञदानतपःकर्मपूर्तेष्टादिभिरप्यसौ ॥८०॥
Verse
न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो । त्वत्पाददर्शनात् सद्यो नाशमेति न संशयः ॥८१॥
Verse
क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम् । तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात् ॥८२॥
Verse
तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा ॥८३॥
Verse
रामरामेति यद् वाणी मधुरं गायति क्षणम् । स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः ॥८४॥
Verse
न काङ्क्षे विजयं राम न च दारसुखादिकम् । भक्तिमेव सदा काङ्क्षे त्वयि बन्धविमोचनीम् ॥८५॥
Verse
त्वन्मायाकृतसंसारस्त्वदंशोऽहं रघूत्तम । स्वपादभक्तिमादिश्य त्राहि मां भवसङ्कटात् ॥८६॥
Verse
पूर्वं मित्रार्युदासीनास्त्वन्मायावृतचेतसः । आसन्मेऽद्य भवत्पाददर्शनादेव राघव ॥८७॥
Verse
सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः । यावत्त्वन्मायया बद्धस्तावद्गुणविशेषता ॥८८॥
Verse
सा यावदस्ति नानात्वं तावद्भवति नान्यथा । यावन्नानात्वमज्ञानात्तावत्कालकृतं भयम् ॥८९॥
Verse
अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति । मायामूलमिदं सर्वं पुत्रदारादिबन्धनम् । तदुत्सारय मायां त्वं दासीं तव रघूत्तम ॥९०॥
Verse
त्वत्पादपद्मार्पितचित्तवृत्ति स्त्वन्नामसङ्गीतकथासु वाणी । त्वद्भक्तसेवानिरतौ करौ मे त्वदङ्गसङ्गं लभतां मदङ्गम् ॥९१॥
Verse
त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः पश्यत्वजस्रं स शृणोतु कर्णः । त्वज्जन्मकर्माणि च पादयुग्मं व्रजत्वजस्रं तव मन्दिराणि ॥९२॥
Verse
अङ्गानि ते पादरजोविमिश्र- तीर्थानि बिभ्रत्वहिशत्रुकेतो । शिरस्त्वदीयं भवपद्मजाद्यैर्- जुष्टं पदं राम नमत्वजस्रम् ॥९३॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे प्रथमे सर्गे सुग्रीवकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥
