Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

tārāyai rāmasya tattvopadeśaḥ

तारायै रामस्य तत्त्वोपदेशः

Verse

किं भीरु शोचसि व्यर्थं शोकस्याविषयं पतिम् । पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः ॥१३॥

Verse

पञ्चात्मको जडो देहस्त्वङ्मांसरुधिरास्थिमान् । कालकर्मगुणोत्पन्नः सोऽप्यास्तेऽद्यापि ते पुरः ॥१४॥

Verse

मन्यसे जीवमात्मानं जीवस्तर्हि निरामयः । न जायते न म्रियते न तिष्ठति न गच्छति ॥१५॥

Verse

न स्त्री पुमान्वा षण्ढो वा जीवः सर्वगतोऽव्ययः । एक एवाद्वितीयोऽयमाकाशवदलेपकः । नित्यो ज्ञानमयः शुद्धः स कथं शोकमर्हति ॥१६॥

Verse

देहोऽचित्काष्ठवद्राम जीवो नित्यश्चिदात्मकः । सुखदुःखादिसम्बन्धः कस्य स्याद्राम मे वद ॥१७॥

Verse

अहङ्कारादिसम्बन्धो यावद्देहेन्द्रियैः सह । संसारस्तावदेव स्यादात्मनस्त्वविवेकिनः ॥१८॥

Verse

मिथ्यारोपितसंसारो न स्वयं विनिवर्तते । विषयान् ध्यायमानस्य स्वप्ने मिथ्यागमो यथा ॥१९॥

Verse

अनाद्यविद्यासम्बन्धात्तत्कार्याहङ्कृतेस्तथा । संसारोऽपार्थकोऽपि स्याद्रागद्वेषादिसङ्कुलः ॥२०॥

Verse

मन एव हि संसारो बन्धश्चैव मनः शुभे । आत्मा मनःसमानत्वमेत्य तद्गतबन्धभाक् ॥२१॥

Verse

यथा विशुद्धः स्फटिकोऽलक्तकादिसमीपगः । तत्तद्वर्णयुगाभाति वस्तुतो नास्ति रञ्जनम् ॥२२॥

Verse

बुद्धीन्द्रियादिसामीप्यादात्मनः संसृतिर्बलात् । आत्मा स्वलिङ्गं तु मनः परिगृह्य तदुद्भवान् ॥२३॥

Verse

कामान् जुषन् गुणैर्बद्धः संसारे वर्ततेऽवशः । आदौ मनोगुणान् सृष्ट्वा ततः कर्माण्यनेकधा ॥२४॥

Verse

शुक्ललोहितकृष्णानि गतयस्तत्समानतः । एवं कर्मवशाज्जीवो भ्रमत्याभूतसम्प्लवम् ॥२५॥

Verse

सर्वोपसंहृतौ जीवो वासनाभिः स्वकर्मभिः । अनाद्यविद्यावशगस्तिष्ठत्यभिनिवेशतः ॥२६॥

Verse

सृष्टिकाले पुनः पूर्ववासनामानसैः सह । जायते पुनरप्येवं घटीयन्त्रमिवावशः ॥२७॥

Verse

यदा पुण्यविशेषेण लभते सङ्गतिं सताम् । मद्भक्तानां सुशान्तानां तदा मद्विषया मतिः ॥२८॥

Verse

मत्कथाश्रवणे श्रद्धा दुर्लभा जायते ततः । ततः स्वरूपविज्ञानमनायासेन जायते ॥२९॥

Verse

तदाऽऽचार्यप्रसादेन वाक्यार्थज्ञानतः क्षणात् । देहेन्द्रियमनःप्राणाहङ्कृतिभ्यः पृथक् स्थितम् ॥३०॥

Verse

स्वात्मानुभवतः सत्यमानन्दात्मानमद्वयम् । ज्ञात्वा सद्यो भवेन्मुक्तः सत्यमेव मयोदितम् ॥३१॥

Verse

एवं मयोदितं सम्यगालोचयति योऽनिशम् । तस्य संसारदुःखानि न स्पृशन्ति कदाचन ॥३२॥

Verse

त्वमप्येतन्मया प्रोक्तमालोचय विशुद्धधीः । न स्पृश्यसे दुःखजालैः कर्मबन्धाद्विमोक्ष्यसे ॥३३॥

Verse

पूर्वजन्मनि ते सुभ्रु कृता मद्भक्तिरुत्तमा । अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे ॥३४॥

Verse

ध्यात्वा मद्रूपमनिशमालोचय मयोदितम् । प्रवाहपतितं कार्यं कुर्वन्त्यपि न लिप्यसे ॥३५॥

Verse

श्रीरामेणोदितं सर्वं श्रुत्वा ताराऽतिविस्मिता । देहाभिमानजं शोकं त्यक्त्वा नत्वा रघूत्तमम् ॥३६॥

Verse

आत्मानुभवसन्तुष्टा जीवन्मुक्ता बभूव ह । क्षणसङ्गममात्रेण रामेण परमात्मना ॥३७॥

Verse

अनादिबन्धं निर्धूय मुक्ता साऽपि विकल्मषा । सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्त्रात् समीरितम् ॥३८॥

Verse

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे कीष्किन्धाकाण्डे तृतीये सर्गे तारायै रामस्य तत्त्वोपदेशः॥

sugrīvakṛta-rāmastotram
kriyāyogaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms