Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kriyāyogaḥ

क्रियायोगः

Verse

इदानीं श्रोतुमिच्छामि क्रियामार्गेण राघव । भवदाराधनं लोके यथा कुर्वन्ति योगिनः ॥८॥

Verse

इदमेव सदा प्राहुर्योगिनो मुक्तिसाधनम् । नारदोऽपि तथा व्यासो ब्रह्मा कमलसम्भवः ॥९॥

Verse

ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् । स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् । तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥१०॥

Verse

मम पूजाविधानस्य नान्तोऽस्ति रघुनन्दन । तथाऽपि वक्ष्ये सङ्क्षेपाद् यथावदनुपूर्वशः ॥११॥

Verse

स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः । सकाशात् सद्गुरोर्मन्त्रं लब्ध्वा मद्भक्तिसंयुतः ॥१२॥

Verse

तेन सन्दर्शितविधिर्मामेवाराधयेत् सुधीः । हृदये वाऽनले वार्चेत्प्रतिमादौ विभावसौ ॥१३॥

Verse

शालग्रामशिलायां वा पूजयेन्मामतन्द्रितः । प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये ॥१४॥

Verse

वेदतन्त्रोदितैर्मन्त्रैर्मृल्लेपनविधानतः । सन्ध्यादि कर्म यन्नित्यं तत्कुर्याद्विधिना बुधः ॥१५॥

Verse

सङ्कल्पमादौ कुर्वीत सिद्ध्यर्थं कर्मणां सुधीः । स्वगुरुं पूजयेद् भक्त्या मद्बुद्ध्या पूजको मम ॥१६॥

Verse

शिलायां स्नपनं कुर्यात्प्रतिमासु प्रमार्जनम् । प्रसिद्धैर्गन्धपुष्पाद्यैर्मत्पूजा सिद्धिदायिका ॥१७॥

Verse

अमायिकोऽनुवृत्त्या मां पूजयेन्नियतव्रतः । प्रतिमादिष्वलङ्कारः प्रियो मे कुलनन्दन ॥१८॥

Verse

अग्नौ यजेत हविषा भास्करे स्थण्डिले यजेत् । भक्तेनोपहृतं प्रीत्यै श्रद्धया मम वार्यपि ॥१९॥

Verse

किं पुनर्भक्ष्यभोज्यादि गन्धपुष्पाक्षतादिकम् । पूजाद्रव्याणि सर्वाणि सम्पाद्यैवं समारभेत् ॥२०॥

Verse

चैलाजिनकुशैः सम्यगासनं परिकल्पयेत् । तत्रोपविश्य देवस्य सम्मुखे शुद्धमानसः ॥२१॥

Verse

ततो न्यासं प्रकुर्वीत मातृकाबहिरान्तरम् । केशवादि ततः कुर्यात्तत्त्वन्यासं ततः परम् ॥२२॥

Verse

मन्मूर्तिपञ्जरन्यासं मन्त्रन्यासं ततो न्यसेत् । प्रतिमादावपि तथा कुर्यान्नित्यमतन्द्रितः ॥२३॥

Verse

कलशं स्वपुरो वामे क्षिपेत्पुष्पादि दक्षिणे । अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमेव च ॥२४॥

Verse

तथैवाचमनार्थं तु न्यसेत्पात्रचतुष्टयम् । हृत्पद्मे भानुविमले मत्कलां जीवसंज्ञिताम् ॥२५॥

Verse

ध्यायेत् स्वदेहमखिलं तया व्याप्तमरिन्दम । तामेवावाहयेन्नित्यं प्रतिमादिषु मत्कलाम् ॥२६॥

Verse

पाद्यार्घ्याचमनीयाद्यैः स्नानवस्त्रविभूषणैः । यावच्छक्योपचारैर्वा त्वर्चयेन्माममायया ॥२७॥

Verse

विभवे सति कर्पूरकुङ्कुमागरुचन्दनैः । अर्चयेन्मन्त्रवन्नित्यं सुगन्धकुसुमैः शुभैः ॥२८॥

Verse

दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् । नीराजनैर्धूपदीपैर्नैवेद्यैर्बहुविस्तरैः ॥२९॥

Verse

श्रद्धयोपहरेन्नित्यं श्रद्धाभुगहमीश्वरः । होमं कुर्यात्प्रयत्नेन विधिना मन्त्रकोविदः ॥३०॥

Verse

अगस्त्येनोक्तमार्गेण कुण्डेनागमवित्तमः । जुहुयान्मूलमन्त्रेण पुंसूक्तेनाथवा बुधः ॥३१॥

Verse

अथवौपासनाग्नौ वा चरुणा हविषा तथा । तप्तजाम्बूनदप्रख्यं दिव्याभरणभूषितम् ॥३२॥

Verse

ध्यायेदनलमध्यस्थं होमकाले सदा बुधः । पार्षदेभ्यो बलिं दत्त्वा होमशेषं समापयेत् ॥३३॥

Verse

ततो जपं प्रकुर्वीत ध्यायेन्मां यतवाक् स्मरन् । मुखवासं च ताम्बूलं दत्त्वा प्रीतिसमन्वितः ॥३४॥

Verse

मदर्थे नृत्यगीतादि स्तुतिपाठादि कारयेत् । प्रणमेद् दण्डवद्भूमौ हृदये मां निधाय च ॥३५॥

Verse

शिरस्याधाय मद्दत्तं प्रसादं भावनामयम् । पाणिभ्यां मत्पदे मूर्ध्नि गृहीत्वा भक्तिसंयुतः ॥३६॥

Verse

रक्ष मां घोरसंसारादित्युक्त्वा प्रणमेत् सुधीः । उद्वासयेद् यथापूर्वं प्रत्यग्ज्योतिषि संस्मरन् ॥३७॥

Verse

एवमुक्तप्रकारेण पूजयेद्विधिवद्यदि । इहामुत्र च संसिद्धिं प्राप्नोति मदनुग्रहात् ॥३८॥

Verse

मद्भक्तो यदि मामेवं पूजां चैव दिने दिने । करोति मम सारूप्यं प्राप्नोत्येव न संशयः ॥३९॥

Verse

इदं रहस्यं परमं च पावनं मयैव साक्षात् कथितं सनातनम् । पठत्यजस्रं यदि वा शृणोति यः स सर्वपूजाफलभाङ्न संशयः ॥४०॥

Verse

एवं परात्मा श्रीरामः क्रियायोगमनुत्तमम् । पृष्टः प्राह स्वभक्ताय शेषांशाय महात्मने ॥४१॥

Verse

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे कीष्किन्धाकाण्डे चतुर्थे सर्गे तारायै रामस्य तत्त्वोपदेशः॥

tārāyai rāmasya tattvopadeśaḥ
rāmāvatārarahasyam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms