Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmāvatārarahasyam

रामावताररहस्यम्

Verse

सर्वज्ञो नित्यलक्ष्मीको विज्ञानात्माऽपि राघवः॥१६॥

Verse

सीतामनुशुशोचार्त्तः प्राकृतः प्राकृतामिव । बुद्ध्यादिसाक्षिणस्तस्य मायाकार्यातिवर्तिनः ॥१८॥

Verse

रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत् । ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि ॥१९॥

Verse

तपसः फलदानाय जातो मानुषवेषधृक् । मायया मोहिताः सर्वे जना अज्ञानसंयुताः ॥२०॥

Verse

कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन् । कथां प्रथयितुं लोके सर्वलोकमलापहाम् ॥२१॥

Verse

रामायणाभिधां रामो भूत्वा मानुषचेष्टकः । क्रोधं मोहं च कामं च व्यवहारार्थसिद्धये ॥२२॥

Verse

तत् तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः । अनुरक्त इवाशेषगुणेषु गुणवर्जितः ॥२३॥

Verse

विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः । अतः कामादिभिर्नित्यमविलिप्तो यथा नभः ॥२४॥

Verse

विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः । तद्भक्ता निर्मलात्मानः सम्यग्जानन्ति नित्यदा । भक्तचित्तानुसारेण जायते भगवानजः ॥२५॥

Verse

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे कीष्किन्धाकाण्डे पञ्चमे सर्गे रामावताररहस्यं सम्पूर्णम्॥

kriyāyogaḥ
svayamprabhā-mokṣaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms