stotrasangraha
svayamprabhā-mokṣaḥ
स्वयम्प्रभा-मोक्षः
Verse
यूयं पिदध्वमक्षीणि गमिष्यथ बहिर्गुहाम् । तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम् ॥५८॥
Verse
साऽपि त्यक्त्वा गुहां शीघ्रं ययौ राघवसन्निधिम् । तत्र रामं ससुग्रीवं लक्ष्मणं च ददर्श ह ॥५९॥
Verse
कृत्वा प्रदक्षिणं रामं प्रणम्य बहुशः सुधीः । आह गद्गदया वाचा रोमाञ्चिततनूरुहा ॥६०॥
Verse
दासी तवाहं राजेन्द्र दर्शनार्थमिहाऽऽगता । बहुवर्षसहस्राणि तप्तं मे दुश्चरं तपः ॥६१॥
Verse
गुहायां दर्शनार्थं ते फलितं मेऽद्य तत्तपः । अद्य हि त्वां नमस्यामि मायायाः परतः स्थितम् ॥६२॥
Verse
सर्वभूतेषु चालक्ष्यं बहिरन्तरवस्थितम् । योगमायाजवनिकाच्छन्नो मानुषविग्रहः ॥६३॥
Verse
न लक्ष्यसेऽज्ञानदृशां शैलूष इव रूपधृक् । महाभागवतानां त्वं भक्तियोगविधित्सया ॥६४॥
Verse
अवतीर्णोऽसि भगवन् कथं जानामि तामसी । लोके जानातु यः कश्चित् तव तत्त्वं रघूत्तम ॥६५॥
Verse
ममैतदेव रूपं ते सदा भातु हृदालये । राम ते पादयुगलं दर्शितं मोक्षदर्शनम् ॥६६॥
Verse
अदर्शनं भवार्णानां सन्मार्गपरिदर्शनम् । धनपुत्रकलत्रादिविभूतिपरिदर्पितः । अकिञ्चनधनं त्वाऽद्य नाभिधातुं जनोऽर्हति ॥६७॥
Verse
निवृत्तगुणमार्गाय निष्किञ्चनधनाय ते॥६८ ॥६८॥
Verse
नमः स्वात्माभिरामाय निर्गुणाय गुणात्मने । कालरूपिणमीशानमादिमध्यान्तवर्जितम् ॥६९॥
Verse
समं चरन्तं सर्वत्र मन्ये त्वां पुरुषं परम् । देव ते चेष्टितं कश्चिन्न वेद नृविडम्बनम् ॥७०॥
Verse
न तेऽस्ति कश्चिद्दयितो द्वेष्यो वाऽपर एव च । त्वन्मायापिहितात्मानस्त्वां पश्यन्ति तथाविधम् ॥७१॥
Verse
अजस्याकर्तुरीशस्य देवतिर्यङ्नरादिषु । जन्मकर्मादिकं यद्यत्तदत्यन्तविडम्बनम् ॥७२॥
Verse
त्वामाहुरक्षरं जातं कथाश्रवणसिद्धये । केचित्कोसलराजस्य तपसः फलसिद्धये ॥७३॥
Verse
कौसल्यया प्रार्थ्यमानं जातमाहुः परे जनाः । दुष्टराक्षसभूभारहरणायार्थितो विभुः ॥७४॥
Verse
ब्रह्मणा नररूपेण जातोऽयमिति केचन । शृण्वन्ति गायन्ति च ये कथास्ते रघुनन्दन ॥७५॥
Verse
पश्यन्ति तव पादाब्जं भवार्णवसुतारणम् । त्वन्मायागुणबद्धाहं व्यतिरिक्तं गुणाश्रयम् ॥७६॥
Verse
कथं त्वां देव जानीयां स्तोतुं वाऽविषयं विभुम् । नमस्यामि रघुश्रेष्ठं बाणासनशरान्वितम् । लक्ष्मणेन सह भ्रात्रा सुग्रीवादिभिरन्वितम् ॥७७॥
Verse
एवं स्तुतो रघुश्रेष्ठः प्रसन्नः प्रणताघहृत् । उवाच योगिनीं भक्तां किं ते मनसि काङ्क्षितम् ॥७८॥
Verse
सा प्राह राघवं भक्त्या भक्तिं ते भक्तवत्सल । यत्र कुत्रापि जाताया निश्चलां देहि मे प्रभो ॥७९॥
Verse
त्वद्भक्तेषु सदा सङ्गो भूयान्मे प्राकृतेषु न । जिह्वा मे रामरामेति भक्त्या वदतु सर्वदा ॥८०॥
Verse
मानसं श्यामलं रूपं सीतालक्ष्मणसंयुतम् । धनुर्बाणधरं पीतवाससं मुकुटोज्ज्वलम् ॥८१॥
Verse
अङ्गदैर्नूपुरैर्मुक्ताहारैः कौस्तुभकुण्डलैः । भान्तं स्मरतु मे राम वरं नान्यं वृणे प्रभो ॥८२॥
Verse
भवत्वेवं महाभागे गच्छ त्वं बदरीवनम् । तत्रैव मां स्मरन्ती त्वं त्यक्त्वेदं भूतपञ्चकम् । मामेव परमात्मानमचिरात्प्रतिपद्यसे ॥८३॥
Verse
श्रुत्वा रघूत्तमवचोऽमृतसारकल्पं गत्वा तदैव बदरीतरुखण्डजुष्टम् । तीर्थं तदा रघुपतिं मनसा स्मरन्ती त्यक्त्वा कलेवरमवाप परं पदं सा ॥८४॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे षष्ठे सर्गे स्वयम्प्रभा-मोक्षः सम्पूर्णः॥
