Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

candramopadeśaḥ

चन्द्रमोपदेशः

Verse

शृणु वत्स वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् । देहमूलमिदं दुःखं देहः कर्मसमुद्भवः ॥१२॥

Verse

कर्म प्रवर्तते देहेऽहम्बुद्ध्या पुरुषस्य हि । अहङ्कारस्त्वनादिः स्यादविद्यासम्भवो जडः ॥१३॥

Verse

चिच्छायया सदा युक्तस्तप्तायःपिण्डवत् सदा । तेन देहस्य तादात्म्याद्देहश्चेतनवान् भवेत् ॥१४॥

Verse

देहोऽहमिति बुद्धिः स्यादात्मनोऽहङ्कृतेर्बलात् । तन्मूल एष संसारः सुखदुःखादिसाधकः ॥१५॥

Verse

आत्मनो निर्विकारस्य मिथ्या तादात्म्यतः सदा । देहोऽहं कर्मकर्ताऽहमिति सङ्कल्प्य सर्वदा ॥१६॥

Verse

जीवः करोति कर्माणि तत्फलैर्बद्ध्यतेऽवशः । ऊर्ध्वाधो भ्रमते नित्यं पापपुण्यात्मकः स्वयम् ॥१७॥

Verse

कृतं मयाऽधिकं पुण्यं यज्ञदानादि निश्चितम् । स्वर्गं गत्वा सुखं भोक्ष्य इति सङ्कल्पवान् भवेत् ॥१८॥

Verse

तथैवाध्यासतस्तत्र चिरं भुक्त्वा सुखं महत् । क्षीणपुण्यः पतत्यर्वागनिच्छन् कर्मचोदितः ॥१९॥

Verse

पतित्वा मण्डले चेन्दोस्ततो नीहारसंयुतः । भूमौ पतित्वा व्रीह्यादौ तत्र स्थित्वा चिरं पुनः ॥२०॥

Verse

भूत्वा चतुर्विधं भोज्यं पुरुषैर्भुज्यते ततः । रेतो भूत्वा पुनस्तेन ऋतौ स्त्रीयोनिसिञ्चितः ॥२१॥

Verse

योनिरक्तेन संयुक्तं जरायुपरिवेष्टितम् । दिनेनैकेन कललं भूत्वा रूढत्वमाप्नुयात् ॥२२॥

Verse

तत्पुनः पञ्चरात्रेण बुद्बुदाकारतामियात् । सप्तरात्रेण तदपि मांसपेशित्वमाप्नुयात् ॥२३॥

Verse

पक्षमात्रेण सा पेशी रुधिरेण परिप्लुता । तस्या एवाङ्कुरोत्पत्तिः पञ्चविंशतिरात्रिषु ॥२४॥

Verse

ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् । पञ्चधाङ्गानि चैकैकं जायन्ते मासतः क्रमात् ॥२५॥

Verse

पाणिपादौ तथा पार्श्वः कटिर्जानु तथैव च । मासद्वयात् प्रजायन्ते क्रमेणैव न चान्यथा ॥२६॥

Verse

त्रिभिर्मासैः प्रजायन्ते अङ्गानां सन्धयः क्रमात् । सर्वाङ्गुल्यः प्रजायन्ते क्रमान्मासचतुष्टये ॥२७॥

Verse

नासा कर्णौ च नेत्रे च जायन्ते पञ्चमासतः । दन्तपङ्क्तिर्नखा गुह्यं पञ्चमे जायते तथा ॥२८॥

Verse

अर्वाक् षण्मासतश्छिद्रं कर्णयोर्भवति स्फुटम् । पायुर्मेढ्रमुपस्थं च नाभिश्चापि भवेन्नृणाम् ॥२९॥

Verse

सप्तमे मासि रोमाणि शिरः केशास्तथैव च । विभक्तावयवत्वं च सर्वं सम्पद्यतेऽष्टमे ॥३०॥

Verse

जठरे वर्धते गर्भः स्त्रिया एवं विहङ्गम । पञ्चमे मासि चैतन्यं जीवः प्राप्नोति सर्वशः ॥३१॥

Verse

नाभिसूत्राल्परन्ध्रेण मातृभुक्तान्नसारतः । वर्धते गर्भतः पिण्डो न म्रियेत स्वकर्मतः ॥३२॥

Verse

स्मृत्वा सर्वाणि जन्मानि पूर्वकर्माणि सर्वशः । जठरानलतप्तोऽयमिदं वचनमब्रवीत् ॥३३॥

Verse

नानायोनिसहस्रेषु जायमानोऽनुभूतवान् । पुत्रदारादिसम्बन्धं कोटिशः पशुबान्धवान् ॥३४॥

Verse

कुटुम्बभरणासक्त्या न्यायान्यायैर्धनार्जनम् । कृतं नाकरवं विष्णुचिन्तां स्वप्नेऽपि दुर्भगः ॥३५॥

Verse

इदानीं तत्फलं भुञ्जे गर्भदुःखं महत्तरम् । अशाश्वते शाश्वतवद्देहे तृष्णासमन्वितः ॥३६॥

Verse

अकार्याण्येव कृतवान्न कृतं हितमात्मनः । इत्येवं बहुधा दुःखमनुभूय स्वकर्मतः ॥३७॥

Verse

कदा निष्क्रमणं मे स्याद्गर्भान्निरयसन्निभात् । इत ऊर्ध्वं नित्यमहं विष्णुमेवानुपूजये ॥३८॥

Verse

इत्यादि चिन्तयन् जीवो योनियन्त्रप्रपीडितः । जायमानोऽतिदुःखेन नरकात्पातकी यथा ॥३९॥

Verse

पूतिव्रणान्निपतितः कृमिरेष इवापरः । ततो बाल्यादिदुःखानि सर्व एवं विभुञ्जते ॥४०॥

Verse

त्वया चैवानुभूतानि सर्वत्र विदितानि च । न वर्णितानि मे गृध्र यौवनादिषु सर्वतः ॥४१॥

Verse

एवं देहोऽहमित्यस्मादभ्यासान्निरयादिकम् । गर्भवासादिदुःखानि भवन्त्यभिनिवेशतः ॥४२॥

Verse

तस्माद् देहद्वयादन्यमात्मानं प्रकृतेः परम् । ज्ञात्वा देहादिममतां त्यक्त्वाऽऽत्मज्ञानवान् भवेत् ॥४३॥

Verse

जाग्रदादिविनिर्मुक्तं सत्यज्ञानादिलक्षणम् । शुद्धं बुद्धं सदा शान्तमात्मानमवधारयेत् ॥४४॥

Verse

चिदात्मनि परिज्ञाते नष्टे मोहेऽज्ञसम्भवे । देहः पततु वाऽरब्धकर्मवेगेन तिष्ठतु ॥४५॥

Verse

योगिनो न हि दुःखं वा सुखं वाऽज्ञानसम्भवम् । तस्माद् देहेन सहितो यावत्प्रारब्धसङ्क्षयः ॥४६॥

Verse

तावत्तिष्ठ सुखेन त्वं धृतकञ्चुकसर्पवत्।

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे अष्टमे सर्गे चन्द्रमोपदेशः सम्पूर्णः॥

svayamprabhā-mokṣaḥ
rāmakathākathanam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms