Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmakathākathanam

रामकथाकथनम्

Verse

विलोक्य हनुमान् किञ्चिद् विचार्यैतदभाषत । शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः ॥१२॥

Verse

इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान् । अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः ॥१३॥

Verse

पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः । रामश्च लक्ष्मणश्चैव भरतश्चैव शत्रुहा ॥१४॥

Verse

ज्येष्ठो रामः पितुर्वाक्याद् दण्डकारण्यमागतः । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥१५॥

Verse

उवास गौतमीतीरे पञ्चवट्यां महामनाः । तत्र नीता महाभागा सीता जनकनन्दिनी ॥१६॥

Verse

रहिते रामचन्द्रेण रावणेन दुरात्मना । ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम् ॥१७॥

Verse

जटायुषं पक्षिराजमपश्यत् पतितं भुवि । तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत् ॥१८॥

Verse

सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः । तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः ॥१९॥

Verse

राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः । सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः ॥२०॥

Verse

प्रेषयामास परितो वानरान् परिमार्गणे । सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः ॥२१॥

Verse

सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम् । समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम् ॥२२॥

Verse

शनैरशोकवनिकां विचिन्वन् शिंशपातरुम् । अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम् ॥२३॥

Verse

रामस्य महिषीं देवीं कृतकृत्योऽहमागतः । इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः ॥२४॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे तृतीये सर्गे हनूमता रामकथाकथनं सम्पूर्णम्॥

candramopadeśaḥ
hanūmatsambhāṣaṇam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms