stotrasangraha
hanūmatsambhāṣaṇam
हनूमत्सम्भाषणम्
Verse
विचार्य लोकस्य विवेकतो गतिं न राक्षसीं बुद्धिमुपैहि रावण । दैवीं गतिं संसृतिमोक्षहैतुकीं समाश्रयात्यन्तहिताय देहिनः ॥१५॥
Verse
त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः पौलस्त्यपुत्रोऽसि कुबेरबान्धवः । देहात्मबुद्ध्याऽपि च पश्य राक्षसो नास्यात्मबुद्ध्या किमु राक्षसो नहि ॥१६॥
Verse
शरीरबुद्धीन्द्रियदुःखसन्ततिः न ते न च त्वं तव निर्विकारतः । अज्ञानहेतोश्च तथैव सन्ततेः असत्त्वमस्याः स्वपतो हि दृश्यवत् ॥१७॥
Verse
इदं तु सत्यं तव नास्ति विक्रिया विकारहेतुर्न च तेऽद्वयत्वतः । यथा नभः सर्वगतं न लिप्यते तथा भवान् देहगतोऽपि सूक्ष्मकः ॥१८॥
Verse
देहेन्द्रियप्राणशरीरसङ्गतः त्वात्मेति बद्ध्वाखिलबन्धभाग्भवेत् । चिन्मात्रमेवाहमजोऽहमक्षरो ह्यानन्दभावोऽहमिति प्रमुच्यते ॥१९॥
Verse
देहोऽप्यनात्मा पृथिवीविकारजो न प्राण आत्माऽनिल एष एव सः । मनोऽप्यहङ्कारविकार एव नो न चापि बुद्धिः प्रकृतेर्विकारजा ॥२०॥
Verse
आत्मा चिदानन्दमयोऽविकारवान् देहादिसङ्घाद्व्यतिरिक्त ईश्वरः । निरञ्जनो मुक्त उपाधितः सदा ज्ञात्वैवमात्मानमितो विमुच्यते ॥२१॥
Verse
अतोऽहमात्यन्तिकमोक्षसाधनं वक्ष्ये शृणुष्वावहितो महामते । विष्णोर्हि भक्तिः सुविशोधनं धियः ततो भवेज्ज्ञानमतीव निर्मलम् ॥२२॥
Verse
विशुद्धतत्त्वानुभवो भवेत्ततः सम्यग्विदित्वा परमं पदं व्रजेत् । अतो भजस्वाद्य हरिं रमापतिं रामं पुराणं प्रकृतेः परं विभुम् ॥२३॥
Verse
विसृज्य मौर्ख्यं हृदि शत्रुभावनां भजस्व रामं शरणागतप्रियम् । सीतां पुरस्कृत्य सपुत्रबान्धवो रामं नमस्कृत्य विमुच्यसे भयात् ॥२४॥
Verse
रामं परात्मानमभावयन् जनो भक्त्या हृदिस्थं सुखरूपमद्वयम् । कथं परं तीरमवाप्नुयाज्जनो भवाम्बुधेर्दुःखतरङ्गमालिनः ॥२५॥
Verse
नो चेत्त्वमज्ञानमयेन वह्निना ज्वलन्तमात्मानमरक्षितारिवत् । नयस्यधोऽधः स्वकृतैश्च पातकैः विमोक्षशङ्का न च ते भविष्यति ॥२६॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे चतुर्थे सर्गे हनूमत्सम्भाषणं सम्पूर्णम्॥
