Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vibhīṣaṇakṛtaṃ rāmastotram

विभीषणकृतं रामस्तोत्रम्

Verse

विभीषणो महाभागश्चतुर्भिर्मन्त्रिभिः सह । आगत्य गगने रामसम्मुखे समवस्थितः ॥१॥

Verse

उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन । रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः ॥२॥

Verse

नाम्ना भ्रात्रा निरस्तोऽहं त्वामेव शरणं गतः । हितमुक्तं मया देव तस्य चाविदितात्मनः ॥३॥

Verse

सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः । उक्तोऽपि न शृणोत्येव कालपाशवशं गतः ॥४॥

Verse

हन्तुं मां खड्गमादाय प्राद्रवद्राक्षसाधमः । ततोऽचिरेण सचिवैश्चतुर्भिः सहितो भयात् ॥५॥

Verse

त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः । विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत् ॥६॥

Verse

विश्वासार्हो न ते राम मायावी राक्षसाधमः । सीताहर्तुर्विशेषेण रावणस्यानुजो बली ॥७॥

Verse

मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति । तदाज्ञापय मे देव वानरैर्हन्यतामयम् ॥८॥

Verse

ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद । श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत् ॥९॥

Verse

यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान् । निमिषार्धेन संहन्यां सृजामि निमिषार्धतः ॥१०॥

Verse

अतो मयाऽभयं दत्तं शीघ्रमानय राक्षसम् ॥११॥

Verse

सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥१२॥

Verse

रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः । विभीषणमथानाय्य दर्शयामास राघवम् ॥१३॥

Verse

विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम् । हर्षगद्गदया वाचा भक्त्या च परयान्वितः ॥१४॥

Verse

रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम् । धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥१५॥

Verse

कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥१६॥

Verse

नमस्ते राम राजेन्द्र नमः सीतामनोरम । नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥१७॥

Verse

नमोऽनन्ताय शान्ताय रामायामिततेजसे । सुग्रीवमित्राय च ते रघूणां पतये नमः ॥१८॥

Verse

जगदुत्पत्तिनाशानां कारणाय महात्मने । त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः ॥१९॥

Verse

त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् । त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥२०॥

Verse

चराचराणां भूतानां बहिरन्तश्च राघव । व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥२१॥

Verse

त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः । गतागतं प्रपद्यन्ते पापपुण्यवशात् सदा ॥२२॥

Verse

तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ज्ञानं चेतसाऽनन्यगामिना ॥२३॥

Verse

त्वदज्ञानात् सदा युक्ताः पुत्रदारगृहादिषु । रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो ॥२४॥

Verse

त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथाऽनिलः । कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम ॥२५॥

Verse

त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो । त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥२६॥

Verse

आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः । त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः ॥२७॥

Verse

श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक । कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥२८॥

Verse

निर्विकल्पो निर्विकारो निराकारो निरीश्वरः । षड्भावरहितोऽनादिः पुरुषः प्रकृतेः परः ॥२९॥

Verse

मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे । ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥३०॥

Verse

अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव । इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥३१॥

Verse

नमः सीतापते राम नमः कारुणिकोत्तम । रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥३२॥

Verse

ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः । वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥३३॥

Verse

धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव । त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥३४॥

Verse

नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः । नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥३५॥

Verse

कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् । त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥३६॥

Verse

न याचे राम राजेन्द्र सुखं विषयसम्भवम् । त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥३७॥

Verse

ओमित्युक्त्वा पुनः प्रीतो रामः प्रोवाच राक्षसम् । शृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम् ॥३८॥

Verse

मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणाम् । हृदये सीतया नित्यं वसाम्यत्र न संशयः ॥३९॥

Verse

तस्मात् त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः । मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात् ॥४०॥

Verse

स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः शृणुयादपि । मत्प्रीतये ममाभीष्टं सारूप्यं समवाप्नुयात् ॥४१॥

Verse

इत्युक्त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान् । पश्यत्विदानीमेवैष मम सन्दर्शने फलम् ॥४२॥

Verse

लङ्काराज्येऽभिषेक्ष्यामि जलमानय सागरात् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥४३॥

Verse

यावन्मम कथा लोके तावद् राज्यं करोत्वसौ । इत्युक्त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम् ॥४४॥

Verse

लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः । कारयामास सचिवैर्लक्ष्मणेन विशेषतः ॥४५॥

Verse

साधु साध्विति ते सर्वे वानरास्तुष्टुवुर्भृशम्।

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे तृतीये सर्गे विभीषणकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥

hanūmatsambhāṣaṇam
śukasambhāṣaṇam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms