Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śukasambhāṣaṇam

शुकसम्भाषणम्

Verse

रामो न मानुषः साक्षादादिनारायणः परः । सीता साक्षाज्जगद्धेतुश्चिच्छक्तिर्जगदात्मिका ॥४०॥

Verse

ताभ्यामेव समुत्पन्नं जगत् स्थावरजङ्गमम् । तस्माद् रामश्च सीता च जगतस्तस्थुषश्च तौ ॥४१॥

Verse

पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत् । अजानता त्वयाऽऽनीता जगन्मातैव जानकी ॥४२॥

Verse

क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे । पञ्चभूतात्मके राजंश्चतुर्विंशतितत्त्वके ॥४३॥

Verse

मलमांसास्थिदुर्गन्धभूयिष्ठेऽहङ्कृतालये । कैवास्था व्यतिरिक्तस्य काये तव जडात्मके ॥४४॥

Verse

यत्कृते ब्रह्महत्यादिपातकानि कृतानि च । भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति ॥४५॥

Verse

पुण्यपापे समायातो जीवेन सुखदुःखयोः । कारणे देहयोगादिनाऽऽत्मनः कुरुतोऽनिशम् ॥४६॥

Verse

यावद्देहोऽस्मि कर्ताऽस्मीत्यात्माऽहं कुरुतेऽवशः । अध्यासात्तावदेव स्याज्जन्मनाशादिसम्भवः ॥४७॥

Verse

तस्मात् त्वं त्यज देहादावभिमानं महामते । आत्मातिऽनिर्मलः शुद्धो विज्ञानात्माऽचलोऽव्ययः ॥४८॥

Verse

स्वाज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति । तस्मात् त्वं शुद्धभावेन ज्ञात्वाऽऽत्मानं सदा स्मर ॥४९॥

Verse

विरतिं भज सर्वत्र पुत्रदारगृहादिषु । निरयेष्वपि भोगः स्याच्छ्वशूकरतनावपि ॥५०॥

Verse

देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः । तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम् ॥५१॥

Verse

को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत् । अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन् ॥५२॥

Verse

अज्ञानीव सदा भोगाननुधावसि किं मुधा । इतः परं वा त्यक्त्वा त्वं सर्वसङ्गं समाश्रय ॥५३॥

Verse

राममेव परात्मनं भक्तिभावेन सर्वदा । सीतां समर्प्य रामाय तत्पादानुचरो भव ॥५४॥

Verse

विमुक्तः सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि । नो चेद्गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः । अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते ॥५५॥

Verse

सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं श्रीराघवं मरकतोपलकान्तिकान्तम् । सीतासमेतमनिशं धृतचापबाणं सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम् ॥५६॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्थे सर्गे शुकसम्भाषणं सम्पूर्णम्॥

vibhīṣaṇakṛtaṃ rāmastotram
kālanemisambhāṣaṇam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms