stotrasangraha
kālanemisambhāṣaṇam
कालनेमिसम्भाषणम्
Verse
सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे । वनं याहि महाबाहो रम्यं मुनिगणाश्रयम् ॥४६॥
Verse
स्नात्वा प्रातः शुभजले कृत्वा सन्ध्यादिकाः क्रियाः । तत एकान्तमाश्रित्य सुखासनपरिग्रहः ॥४७॥
Verse
विसृज्य सर्वतः सङ्गमितरान् विषयान् बहिः । बहिःप्रवृत्ताक्षगणं शनैः प्रत्यक् प्रवाहय ॥४८॥
Verse
प्रकृतेर्भिन्नमात्मानं विचारय सदाऽनघ । चराचरं जगत् कृत्स्नं देहबुद्धीन्द्रियादिकम् ॥४९॥
Verse
आब्रह्मस्तम्बपर्यन्तं दृश्यते श्रूयते च यत् । सैषा प्रकृतिरित्युक्ता सैव मायेति कीर्तिता ॥५०॥
Verse
सर्गस्थितिविनाशानां जगद्वृक्षस्य कारणम् । लोहितश्वेतकृष्णादि प्रजाः सृजति सर्वदा ॥५१॥
Verse
कामक्रोधादिपुत्राद्यान् हिंसातृष्णादिकन्यकाः । मोहयन्त्यनिशं देवमात्मानं स्वैर्गुणैर्विभुम् ॥५२॥
Verse
कर्तृत्वभोक्तृत्वमुखान् स्वगुणानात्मनीश्वरे । आरोप्य स्ववशं कृत्वा तेन क्रीडति सर्वदा ॥५३॥
Verse
शुद्धोऽप्यात्मा यया युक्तः पश्यतीव सदा बहिः । विस्मृत्य च स्वमात्मानं मायागुणविमोहितः ॥५४॥
Verse
यदा सद्गुरुणा युक्तो बोध्यते बोधरूपिणा । निवृत्तदृष्टिरात्मानं पश्यत्येव सदा स्फुटम् ॥५५॥
Verse
जीवन्मुक्तः सदा देही मुच्यते प्राकृतैर्गुणैः । त्वमप्येवं सदाऽऽत्मानं विचार्य नियतेन्द्रियः ॥५६॥
Verse
प्रकृतेरन्यमात्मानं ज्ञात्वा मुक्तो भविष्यसि । ध्यातुं यद्यसमर्थोऽसि सगुणं देवमाश्रय ॥५७॥
Verse
हृत्पद्मकर्णिके स्वर्णपीठे मणिगणान्विते । मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् ॥५८॥
Verse
वीरासनं विशालाक्षं विद्युत्पुञ्जनिभाम्बरम् । किरीटहारकेयूरकौस्तुभादिभिरन्वितम् ॥५९॥
Verse
नूपुरैः कटकैर्भान्तं तथैव वनमालया । लक्ष्मणेन धनुर्द्वन्द्वकरेण परिसेवितम् ॥६०॥
Verse
एवं ध्यात्वा सदाऽऽत्मानं रामं सर्वहृदि स्थितम् । भक्त्या परमया युक्तो मुच्यते नात्र संशयः ॥६१॥
Verse
शृणु वै चरितं तस्य भक्तैर्नित्यमनन्यधीः । एवं चेत्कृतपूर्वाणि पापानि च महान्त्यपि । क्षणादेव विनश्यन्ति यथाऽग्नेस्तूलराशयः ॥६२॥
Verse
भजस्व रामं परिपूर्णमेकं विहाय वैरं निजभक्तियुक्तः । हृदा सदा भावितभावरूपम् अनामरूपं पुरुषं पुराणम् ॥६३॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षष्ठे सर्गे कालनेमिसम्भाषणं सम्पूर्णम्॥
