stotrasangraha
kumbhakarṇasambhāṣaṇam
कुम्भकर्णसम्भाषणम्
Verse
पुरा मन्त्रविचारे ते गदितं यन्मया नृप । तदद्य त्वामुपगतं फलं पापस्य कर्मणः ॥५७॥
Verse
पूर्वमेव मया प्रोक्तो रामो नारायणः परः । सीता च योगमायेति बोधितोऽपि न बुध्यसे ॥५८॥
Verse
एकदाऽहं वने सानौ विशालायां स्थितो निशि । दृष्टो मया मुनिः साक्षान्नारदो दिव्यदर्शनः ॥५९॥
Verse
तमब्रवं महाभाग कुतो गन्तासि मे वद । इत्युक्तो नारदः प्राह देवानां मन्त्रणे स्थितः ॥६०॥
Verse
तत्रोत्पन्नमुदन्तं ते वक्ष्यामि शृणु तत्त्वतः । युवाभ्यां पीडिता देवाः सर्वे विष्णुमुपागताः ॥६१॥
Verse
ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः । जहि रावणमक्षोभ्यं देव त्रैलोक्यकण्टकम् ॥६२॥
Verse
मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा । अतस्त्वं मानुषो भूत्वा जहि रावणकण्टकम् ॥६३॥
Verse
तथेत्याह महाविष्णुः सत्यसङ्कल्प ईश्वरः । जातो रघुकुले देवो राम इत्यभिविश्रुतः ॥६४॥
Verse
स हनिष्यति वः सर्वानित्युक्त्वा प्रययौ मुनिः । अतो जानीहि रामं त्वं परं ब्रह्म सनातनम् ॥६५॥
Verse
त्यज वैरं भजस्वाद्य मायामानुषविग्रहम् । भजतो भक्तिभावेन प्रसीदति रघूत्तमः ॥६६॥
Verse
भक्तिर्जनित्री ज्ञानस्य भक्तिर्मोक्षप्रदायिनी । भक्तिहीनेन यत्किञ्चित्कृतं सर्वमसत्समम् ॥६७॥
Verse
अवताराः सुबहवो विष्णोर्लीलानुकारिणः । तेषां सहस्रसदृशो रामो ज्ञानमयः शिवः ॥६८॥
Verse
रामं भजन्ति निपुणा मनसा वचसाऽनिशम् । अनायासेन संसारं तीर्त्वा यान्ति हरेः पदम् ॥६९॥
Verse
ये राममेव सततं भुवि शुद्धसत्त्वा ध्यायन्ति तस्य चरितानि पठन्ति सन्तः । मुक्तास्त एव भवभोगमहाहिपाशैः सीतापतेः पदमनन्तसुखं प्रयान्ति ॥७०॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमे सर्गे कुम्भकर्णसम्भाषणं सम्पूर्णम्॥
