Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

nāradastutiḥ

नारदस्तुतिः

Verse

देवदेव जगन्नाथ परमात्मन् सनातन । नारायणाखिलाधार विश्वसाक्षिन्नमोऽस्तु ते ॥३४॥

Verse

विशुद्धज्ञानरूपोऽपि त्वं लोकानतिवञ्चयन् । मायया मनुजाकारः सुखदुःखादिमानिव ॥३५॥

Verse

त्वं मायया गुह्यमानः सर्वेषां हृदि संस्थितः । स्वयञ्ज्योतिः स्वभावस्त्वं व्यक्त एवामलात्मनाम् ॥३६॥

Verse

उन्मीलयन् सृजस्येतन्नेत्रे राम जगत्त्रयम् । उपसंह्रियते सर्वं त्वया चक्षुर्निमीलनात् ॥३७॥

Verse

यस्मिन् सर्वमिदं भाति यतश्चैतच्चराचरम् । यस्मान्न किञ्चिल्लोकेऽस्मिंस्तस्मै ते ब्रह्मणे नमः ॥३८॥

Verse

प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणम् । यं जानन्ति मुनिश्रेष्ठास्तस्मै रामाय ते नमः ॥३९॥

Verse

विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ । त्वां सर्वजगदाकारमूर्तिं चाप्याह सा श्रुतिः ॥४०॥

Verse

विरोधो दृश्यते देव वैदिको वेदवादिनाम् । निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः ॥४१॥

Verse

मायया क्रीडतो देव न विरोधो मनागपि । रश्मिजालं रवेर्यद्वद्दृश्यते जलवद्भ्रमात् ॥४२॥

Verse

भ्रान्तिज्ञानात्तथा राम त्वयि सर्वं प्रकल्प्यते । मनसोऽविषयो देव रूपं ते निर्गुणं परम् ॥४३॥

Verse

कथं दृश्यं भवेद् देव दृश्याभावे भजेत्कथम् । अतस्तवावतारेषु रूपाणि निपुणा भुवि ॥४४॥

Verse

भजन्ति बुद्धिसम्पन्नास्तरन्त्येव भवार्णवम् । कामक्रोधादयस्तत्र बहवः परिपन्थिनः ॥४५॥

Verse

भीषयन्ति सदा चेतो मार्जारा मूषकं यथा । त्वन्नाम स्मरतां नित्यं त्वद्रूपमपि मानसे ॥४६॥

Verse

त्वत्पूजानिरतानां ते कथामृतपरात्मनाम् । त्वद्भक्तसङ्गिनां राम संसारो गोष्पदायते ॥४७॥

Verse

अतस्ते सगुणं रूपं ध्यात्वाऽहं सर्वदा हृदि । मुक्तश्चरामि लोकेषु पूज्योऽहं सर्वदैवतैः ॥४८॥

Verse

राम त्वया महत्कार्यं कृतं देवहितेच्छया । कुम्भकर्णवधेनाद्य भूभारोऽयं गतः प्रभो ॥४९॥

Verse

श्वो हनिष्यति सौमित्रिरिन्द्रजेतारमाहवे । हनिष्यसेऽथ राम त्वं परश्वो दशकन्धरम् ॥५०॥

Verse

पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः । अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम् ॥५१॥

Verse

इत्युक्त्वा राममामन्त्र्य नारदो भगवानृषिः । ययौ देवैः पूज्यमानो ब्रह्मलोकमकल्मषम् ॥५२॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे अष्टमे सर्गे नारदस्तुतिः सम्पूर्णा॥

kumbhakarṇasambhāṣaṇam
mandodarī-rāvaṇa-saṃvādaḥ

Read next

More on नारदस्तुतिः

  • नारदस्तुतिःStuti

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms