stotrasangraha
mandodarī-rāvaṇa-saṃvādaḥ
मन्दोदरी-रावण-संवादः
Verse
रावणस्तु ततो भार्यामुवाच परिसान्त्वयन् । दैवाधीनमिदं भद्रे जीवता किं न दृश्यते । त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम् ॥३६॥
Verse
अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत् । अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु ॥३७॥
Verse
तन्मूलः पुत्रदारादिसम्बन्धः संसृतिस्ततः । हर्षशोकभयक्रोधलोभमोहस्पृहादयः ॥३८॥
Verse
अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः । आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः ॥३९॥
Verse
आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः । न संयोगो वियोगो वा विद्यते केनचित् सतः ॥४०॥
Verse
एवं ज्ञात्वा स्वमात्मानं त्यज शोकमनिन्दिते । इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम् ॥४१॥
Verse
आगमिष्यामि नो चेन्मां दारयिष्यति सायकैः । श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम् ॥४२॥
Verse
तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये । सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम् ॥४३॥
Verse
एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता । उवाच नाथ मे वाक्यं शृणु सत्यं तथा कुरु ॥४४॥
Verse
शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन । रामो देववरः साक्षात्प्रधानपुरुषेश्वरः ॥४५॥
Verse
मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः । ररक्ष सकलापद्भ्यो राघवो भक्तवत्सलः ॥४६॥
Verse
रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः । समुद्रमथने पृष्ठे दधार कनकाचलम् ॥४७॥
Verse
हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना । क्रोडरूपेण वपुषा क्षोणीमुद्धरता क्वचित् ॥४८॥
Verse
त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा । हतवान्नारसिंहेन वपुषा रघुनन्दनः ॥४९॥
Verse
विक्रमैस्त्रिभिरेवासौ बलिं बद्ध्वा जगत्त्रयम् । आक्रम्यादात् सुरेन्द्राय भृत्याय रघुसत्तमः ॥५०॥
Verse
राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः । तान् हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः ॥५१॥
Verse
स एव साम्प्रतं जातो रघुवंशे परात्परः । भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः ॥५२॥
Verse
तस्य भार्या किमर्थं वा हृता सीता वनाद् बलात् । मम पुत्रविनाशार्थं स्वस्यापि निधनाय च ॥५३॥
Verse
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे । विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम् ॥५४॥
Verse
मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत् । कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम् ॥५५॥
Verse
घातयित्वा राघवेण जीवामि वनगोचरः । रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः ॥५६॥
Verse
विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम् । जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम् । ज्ञात्वैव जानकी सीता मयाऽऽनीता वनाद् बलात् ॥५७॥
Verse
रामेण निधनं प्राप्य यास्यामीति परं पदम् । विमुच्य त्वां तु संसाराद्गमिष्यामि सह प्रिये ॥५८॥
Verse
परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः । तां गतिं तु गमिष्यामि हतो रामेण संयुगे ॥५९॥
Verse
प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम् ॥६०॥
Verse
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं दारात्मजाप्तधनबन्धुझषाभियुक्तम् । और्वानलाभनिजरोषमनङ्गजालं संसारसागरमतीत्य हरिं व्रजामि ॥६१॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे दशमे सर्गे मन्दोदरी-रावण-संवादः सम्पूर्णः
