Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

lakṣmaṇopadeśaḥ

लक्ष्मणोपदेशः

Verse

शोकेन महताऽऽविष्टं सौमित्रिरिदमब्रवीत् । यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण ॥१०॥

Verse

त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम् । यद्वत्तोयौघपतिताः सिकता यान्ति तद्वशाः ॥११॥

Verse

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः । यथा धानासु वै धाना भवन्ति न भवन्ति च ॥१२॥

Verse

एवं भूतेषु भूतानि प्रेरितानीशमायया । त्वं चेमे वयमन्ये च तुल्याः कालवशोद्भवाः ॥१३॥

Verse

जन्ममृत्यू यदा यस्मात्तदा तस्माद् भविष्यतः । ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः ॥१४॥

Verse

आत्मसृष्टैरस्वतन्त्रैर्निरपेक्षोऽपि बालवत् । देहेन देहिनो जीवा देहाद्देहोऽभिजायते ॥१५॥

Verse

बीजादेव यथा बीजं देहान्य इव शाश्वतः । देहिदेहविभागोऽयमविवेककृतः पुरा ॥१६॥

Verse

नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रियाफलम् । द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः ॥१७॥

Verse

त इमे देहसंयोगादात्मना भान्त्यसद्ग्रहात् । यथा यथा तथा चान्यद्ध्यायतोऽसत्सदाग्रहात् ॥१८॥

Verse

प्रसुप्तस्यानहम्भावात्तदा भाति न संसृतिः । जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः ॥१९॥

Verse

तस्मान्मायामनोधर्मं जह्यहम्ममताभ्रमम् । रामभद्रे भगवति मनो धेह्यात्मनीश्वरे ॥२०॥

Verse

सर्वभूतात्मनि परे मायामानुषरूपिणि । बाह्येन्द्रियार्थसम्बन्धात्त्याजयित्वा मनः शनैः ॥२१॥

Verse

तत्र दोषान् दर्शयित्वा रामानन्दे नियोजय । देहबुद्ध्या भवेद् भ्राता पिता माता सुहृत्प्रियः ॥२२॥

Verse

विलक्षणं यदा देहाज्जानात्यात्मानमात्मना । तदा कः कस्य वा बन्धुर्भ्राता माता पिता सुहृत् ॥२३॥

Verse

मिथ्याज्ञानवशाज्जाता दारागारादयः सदा । शब्दादयश्च विषया विविधाश्चैव सम्पदः ॥२४॥

Verse

बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः । अज्ञानजत्वात् सर्वे ते क्षणसङ्गमभङ्गुराः ॥२५॥

Verse

अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम् । अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम् ॥२६॥

Verse

भूतं भविष्यदभजन् वर्तमानमथाचरन् । विहरस्व यथान्यायं भवदोषैर्न लिप्यसे ॥२७॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादशे सर्गे लक्ष्मणोपदेशः सम्पूर्णः

mandodarī-rāvaṇa-saṃvādaḥ
brahmendradevatādi stutiḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms