Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

brahmendradevatādi stutiḥ

ब्रह्मेन्द्रदेवतादि स्तुतिः

Verse

ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा । कुबेरश्च महातेजाः पिनाकी वृषवाहनः ॥१०॥

Verse

ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः । ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः ॥११॥

Verse

एते चान्ये विमानाग्र्यैराजग्मुर्यत्र राघवः । अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते ॥१२॥

Verse

कर्ता त्वं सर्वलोकानां साक्षी विज्ञानविग्रहः । वसूनामष्टमोऽसि त्वं रुद्राणां शङ्करो भवान् ॥१३॥

Verse

आदिकर्ताऽसि लोकानां ब्रह्मा त्वं चतुराननः । अश्विनौ घ्राणभूतौ ते चक्षुषी चन्द्रभास्करौ ॥१४॥

Verse

लोकानामादिरन्तोऽसि नित्य एकः सदोदितः । सदा शुद्धः सदा बुद्धः सदा मुक्तोऽगुणोऽद्वयः ॥१५॥

Verse

त्वन्मायासंवृतानां त्वं भासि मानुषविग्रहः । त्वन्नाम स्मरतां राम सदा भासि चिदात्मकः ॥१६॥

Verse

रावणेन हृतं स्थानमस्माकं तेजसा सह । त्वयाऽद्य निहतो दुष्टः पुनः प्राप्तं पदं स्वकम् ॥१७॥

Verse

एवं स्तुवत्सु देवेषु ब्रह्मा साक्षात्पितामहः । अब्रवीत्प्रणतो भूत्वा रामं सत्यपथे स्थितम् ॥१८॥

Verse

वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् । हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥१९॥

Verse

प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्वा सर्वं संशयबन्धं विषयौघान् । पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥२०॥

Verse

मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् । योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥२१॥

Verse

भावाभावप्रत्ययहीनं भवमुख्यैः योगासक्तैरर्चितपादाम्बुजयुग्मम् । नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥२२॥

Verse

त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी । भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥२३॥

Verse

त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् । भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥२४॥

Verse

को वा ज्ञातुं त्वामतिमानं गतमानं मायासक्तो माधव शक्तो मुनिमान्यम् । वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥२५॥

Verse

नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् । मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥२६॥

Verse

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः । रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥२७॥

Verse

श्रुत्वा स्तुतिं लोकगुरोर्विभावसुः स्वाङ्के समादाय विदेहपुत्रिकाम् । विभ्राजमानां विमलारुणद्युतिं रक्ताम्बरां दिव्यविभूषणान्विताम् ॥२८॥

Verse

प्रोवाच साक्षी जगतां रघूत्तमं प्रपन्नसर्वार्तिहरं हुताशनः । गृहाण देवीं रघुनाथ जानकीं पुरा त्वया मय्यवरोपितां वने ॥२९॥

Verse

विधाय मायाजनकात्मजां हरे दशाननप्राणविनाशनाय च । हतो दशास्यः सह पुत्रबान्धवैः निराकृतोऽनेन भरो भुवः प्रभो ॥३०॥

Verse

तिरोहिता सा प्रतिबिम्बरूपिणी कृता यदर्थं कृतकृत्यतां गता । ततोऽतिहृष्टां परिगृह्य जानकीं रामः प्रहृष्टः प्रतिपूज्य पावकम् ॥३१॥

Verse

स्वाङ्के समावेश्य सदाऽनपायिनीम् श्रियं त्रिलोकीजननीं श्रियः पतिः।

Verse

दृष्ट्वाऽथ रामं जनकात्मजायुतं श्रिया स्फुरन्तं सुरनायको मुदा । भक्त्या गिरा गद्गदया समेत्य कृताञ्जलिः स्तोतुमथोपचक्रमे ॥३२॥

Verse

भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥३३॥

Verse

सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥३४॥

Verse

प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥३५॥

Verse

सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् । चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥३६॥

Verse

महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपा भवन्तीह लोके ॥३७॥

Verse

अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः । इदानीं भवत्पादपद्मप्रसादात् त्रिलोकाधिपत्याभिमानो विनष्टः ॥३८॥

Verse

स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥३९॥

Verse

सुराधीशनीलाभ्रनीलाङ्गकान्तिं विराधादिरक्षोवधाल्लोकशान्तिम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥४०॥

Verse

लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् । स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥४१॥

Verse

ततः प्रोवाच भगवान् भवान्या सहितो भवः । रामं कमलपत्राक्षं विमानस्थो नभःस्थले ॥४२॥

Verse

आगमिष्याम्ययोध्यायां द्रष्टुं त्वां राज्यसत्कृतम् । इदानीं पश्य पितरमस्य देहस्य राघव ॥४३॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे त्रयोदशे सर्गे ब्रह्मेन्द्रदेवतादि स्तुतिः सम्पूर्णा॥

lakṣmaṇopadeśaḥ
bharadvājakṛta-rāmastutiḥ

Read next

More on ब्रह्मेन्द्रदेवतादि

  • ब्रह्मेन्द्रदेवतादि स्तुतिःStuti

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms