Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

bharadvājakṛta-rāmastutiḥ

भरद्वाजकृत-रामस्तुतिः

Verse

त्वं ब्रह्म परमं साक्षादादिमध्यान्तवर्जितः । त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत् ॥१०॥

Verse

नारायणोऽसि विश्वात्मन्नराणामन्तरात्मकः । त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः ॥११॥

Verse

अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः । त्वं विष्णुर्जानकी लक्ष्मीः शेषोऽयं लक्ष्मणाभिधः ॥१२॥

Verse

आत्मना सृजसीदं त्वमात्मन्येवाऽऽत्ममायया । न सज्जसे नभोवत् त्वं चिच्छक्त्या सर्वसाक्षिकः ॥१३॥

Verse

बहिरन्तश्च भूतानां त्वमेव रघुनन्दन । पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे ॥१४॥

Verse

जगत् त्वं जगदाधारस्त्वमेव परिपालकः । त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते ॥१५॥

Verse

दृश्यते श्रूयते यद्यत् स्मर्यते वा रघूत्तम । त्वमेव सर्वमखिलं त्वद्विनाऽन्यन्न किञ्चन ॥१६॥

Verse

माया सृजति लोकांश्च स्वगुणैरहमादिभिः । त्वच्छक्तिप्रेरिता राम तस्मात् त्वय्युपचर्यते ॥१७॥

Verse

यथा चुम्बकसान्निध्याच्चलन्त्येवायसादयः । जडास्तथा त्वया दृष्टा माया सृजति वै जगत् ॥१८॥

Verse

देहद्वयमदेहस्य तव विश्वं रिरक्षिषोः । विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्ममुदाहृतम् ॥१९॥

Verse

विराजः सम्भवन्त्येते अवताराः सहस्रशः । कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन ॥२०॥

Verse

अवतारकथां लोके ये गायन्ति गृणन्ति च । अनन्यमनसो मुक्तिस्तेषामेव रघूत्तम ॥२१॥

Verse

त्वं ब्रह्मणा पुरा भूमेर्भारहाराय राघव । प्रार्थितस्तपसा तुष्टस्त्वं जातोऽसि रघोः कुले ॥२२॥

Verse

देवकार्यमशेषेण कृतं ते राम दुष्करम् । बहुवर्षसहस्राणि मानुषं देहमाश्रितः ॥२३॥

Verse

कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च । पापहारीणि भुवनं यशसा पूरयिष्यसि ॥२४॥

Verse

प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम् । स्थित्वाऽद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम् ॥२५॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्दशे सर्गे भरद्वाजकृत-रामस्तुतिः सम्पूर्णा॥

brahmendradevatādi stutiḥ
śivakṛta-rāmastutiḥ

Read next

More on भरद्वाजकृत-रामस्तुतिः

  • भरद्वाजकृत-रामस्तुतिःStuti

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms