stotrasangraha
śivakṛta-rāmastutiḥ
शिवकृत-रामस्तुतिः
Verse
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥५१॥
Verse
त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत् स्वे सुखेऽजस्ररतोऽनवद्यः ॥५२॥
Verse
लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः । नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥५३॥
Verse
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः । उपर्यधो भान्वनिलोडुपौषधि- प्रवर्षरूपोऽवसि नैकधा जगत् ॥५४॥
Verse
त्वमिह देहभृतां शिखिरूपः पचसि भुक्तमशेषमजस्रम् । पवनपञ्चकरूपसहायो जगदखण्डमनेन बिभर्षि ॥५५॥
Verse
चन्द्रसूर्यशिखिमध्यगतं यत् तेज ईश चिदशेषतनूनाम् । प्राभवत्तनुभृतामिव धैर्यं शौर्यमायुरखिलं तव सत्त्वम् ॥५६॥
Verse
त्वं विरिञ्चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात् । वादिनां पृथगिवेश विभासि ब्रह्म निश्चितमनन्यदिहैकम् ॥५७॥
Verse
मत्स्यादिरूपेण यथा त्वमेकः श्रुतौ पुराणेषु च लोकसिद्धः । तथैव सर्वं सदसद्विभाग- स्त्वमेव नान्यद् भवतो विभाति ॥५८॥
Verse
यद्यत् समुत्पन्नमनन्तसृष्टा- वुत्पत्स्यते यच्च भवच्च यच्च । न दृश्यते स्थावरजङ्गमादौ त्वया विनातःपरतः परस्त्वम् ॥५९॥
Verse
तत्त्वं न जानन्ति परात्मनस्ते जनाः समस्तास्तव माययातः । त्वद्भक्तसेवाऽमलमानसानां विभाति तत्त्वं परमेकमैशम् ॥६०॥
Verse
ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्त्वं बहिरर्थभावाः । ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥६१॥
Verse
अहं भवन्नाम गृणन् कृतार्थो वसामि काश्यामनिशं भवान्या । मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव राम नाम ॥६२॥
Verse
इमं स्तवं नित्यमनन्यभक्त्या शृण्वन्ति गायन्ति लिखन्ति ये वै । ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात् ॥६३॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चदशे सर्गे शिवकृत-रामस्तुतिः सम्पूर्णा॥
