stotrasangraha
agastyadvārā rāmasvarūpakathanam
अगस्त्यद्वारा रामस्वरूपकथनम्
Verse
भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः । त्वत्स्वरूपमिदं सर्वं जगत् स्थावरजङ्गमम् ॥६३॥
Verse
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः । अग्निस्ते मुखतो जातो वाचा सह रघूत्तम ॥६४॥
Verse
बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ । दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः ॥६५॥
Verse
घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ । जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन् ॥६६॥
Verse
कुक्षिदेशात् समुत्पन्नाश्चत्वारः सागरा हरे । स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः ॥६७॥
Verse
मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः । अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः ॥६८॥
Verse
ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः । त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः ॥६९॥
Verse
नानारूप इवाऽऽभासि गुणव्यतिकरे सति । त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे ॥७०॥
Verse
त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम् । त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः ॥७१॥
Verse
त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव । क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः ॥७२॥
Verse
त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे । सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत् ॥७३॥
Verse
नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा । योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् ॥७४॥
Verse
अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम् । त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः ॥७५॥
Verse
विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा । मया प्रलपितं किञ्चित् सर्वज्ञस्य तवाग्रतः । क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् ॥७६॥
Verse
दिग्देशकालपरिहीनमनन्यमेकं चिन्मात्रमक्षरमजं चलनादिहीनम् । सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त- मायं भजे रघुपतिं भजतामभिन्नम् ॥७७॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीये सर्गे अगस्त्यद्वारा रामस्वरूपकथनं सम्पूर्णम्॥
