Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāvaṇasanatkumāra-saṃvāda-kathā

रावणसनत्कुमार-संवाद-कथा

Verse

अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम् । सीता हृता यदर्थं सा रावणेन दुरात्मना ॥२९॥

Verse

पुरा कृतयुगे राम प्रजापतिसुतं विभुम् । सनत्कुमारमेकान्ते समासीनं दशाननः । विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत् ॥३०॥

Verse

को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः । देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि ॥३१॥

Verse

कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः । एतन्मे शंस भगवन् प्रश्नं प्रश्नविदां वर ॥३२॥

Verse

ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक् । दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक ॥३३॥

Verse

भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि । सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः ॥३४॥

Verse

यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः । सृष्टं येनैव सकलं जगत् स्थावरजङ्गमम् ॥३५॥

Verse

तं समाश्रित्य विबुधा जयन्ति समरे रिपून् । योगिनो ध्यानयोगेन तमेवानुजपन्ति हि ॥३६॥

Verse

महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः । दैत्यदानवरक्षांसि विष्णुना निहतानि च ॥३७॥

Verse

कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव । तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम् ॥३८॥

Verse

दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम् । भोगक्षये पुनस्तस्माद् भ्रष्टा भूमौ भवन्ति ते ॥३९॥

Verse

पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च । विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम् ॥४०॥

Verse

श्रुत्वा मुनिमुखात् सर्वं रावणो हृष्टमानसः । योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत् ॥४१॥

Verse

मनःस्थितं परिज्ञाय रावणस्य महामुनिः । उवाच वत्स तेऽभीष्टं भविष्यति न संशयः ॥४२॥

Verse

कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन । एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम् ॥४३॥

Verse

तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः । स्थावरेषु च सर्वेषु नदेषु च नदीषु च ॥४४॥

Verse

ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः । समस्तजगदाधारः शेषरूपधरो हि सः ॥४५॥

Verse

सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः । सूर्योदयो दिवारात्री यमश्चैव तथाऽनिलः ॥४६॥

Verse

अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा । ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः ॥४७॥

Verse

विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत् । क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः ॥४८॥

Verse

तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् । नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः ॥४९॥

Verse

शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम् । सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति ॥५०॥

Verse

द्रष्टुं न शक्यते कैश्चिद् देवदानवपन्नगैः । यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति ॥५१॥

Verse

न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः । शक्यते भगवान् द्रष्टुमुपायैरितरैरपि ॥५२॥

Verse

तद् भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः । शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः ॥५३॥

Verse

अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम् । त्रेतायुगे स देवेशो भविता नृपविग्रहः ॥५४॥

Verse

हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः । रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः ॥५५॥

Verse

पितुर्नियोगात् स भ्रात्रा भार्यया दण्डके वने । विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया ॥५६॥

Verse

एवं ते सर्वमाख्यातं मया रावण विस्तरात् । भजस्व भक्तिभावेन सदा रामं श्रिया युतम् ॥५७॥

Verse

एवं श्रुत्वाऽसुराध्यक्षो ध्यात्वा किञ्चिद् विचार्य च । त्वया सह विरोधेप्सुर्मुमुदे रावणो महान् ॥५८॥

Verse

युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः । एतदर्थं महाराज रावणोऽतीव बुद्धिमान् । हृतवान् जानकीं देवीं त्वयाऽऽत्मवधकाङ्क्षया ॥५९॥

Verse

इमां कथां यः शृणुयात्पठेद् वा संश्रावयेद्वा श्रवणार्थिनां सदा । आयुष्यमारोग्यमनन्तसौख्यं प्राप्नोति लाभं धनमक्षयं च ॥६०॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीये सर्गे रावणसनत्कुमार-संवाद-कथा सम्पूर्णा॥

agastyadvārā rāmasvarūpakathanam
rāmagītā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms