Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kausalyākṛta-rāmastotram

कौसल्याकृत-रामस्तोत्रम्

Verse

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर । परमात्माऽच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः ॥२०॥

Verse

वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् । त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् ॥२१॥

Verse

त्वमेव मायया विश्वं सृजस्यवसि हंसि च । सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा ॥२२॥

Verse

करोषीव न कर्ता त्वं गच्छसीव न गच्छसि । शृणोषि न शृणोषीव पश्यसीव न पश्यसि ॥२३॥

Verse

अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत् । समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे ॥२४॥

Verse

अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् । जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः ॥२५॥

Verse

त्वं ममोदरसम्भूत इति लोकान् विडम्बसे । भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम ॥२६॥

Verse

संसारसागरे मग्ना पतिपुत्रधनादिषु । भ्रमामि मायया तेऽद्य पादमूलमुपागता ॥२७॥

Verse

देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे । आवृणोतु न मां माया तव विश्वविमोहिनी ॥२८॥

Verse

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । दर्शयस्व महानन्दबालभावं सुकोमलम् । ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः ॥२९॥

Verse

यद्यदिष्टं तवास्त्यम्ब तत्तद् भवतु नान्यथा ॥३०॥

Verse

अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये । प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः ॥३१॥

Verse

त्वया दशरथेनाहं तपसाराधितः पुरा । मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते ॥३२॥

Verse

रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् । मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् ॥३३॥

Verse

संवादमावयोर्यस्तु पठेद् वा शृणुयादपि । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥३४॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे तृतीये सर्गे श्री-कौसल्याविरचितं श्री-रामस्तोत्रं सम्पूर्णम्॥

rāma hṛdayam
ahalyākṛta-rāmastotram (adhyātmarāmāyaṇe)

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms