stotrasangraha
ahalyākṛta-rāmastotram
अहल्याकृत-रामस्तोत्रम्
Verse
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजः कणादहम् । स्पृशामि यत्पद्मजशङ्करादिभिः विमृग्यते रन्धितमानसैः सदा ॥१॥
Verse
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥२॥
Verse
यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान् पुनाति । साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥३॥
Verse
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् । धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान् भजिष्ये ॥४॥
Verse
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च । यन्नामसाररसिको भगवान् पुरारिः तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥
Verse
यस्यावतारचरितानि विरिञ्चिलोके गायन्ति नारदमुखा भवपद्मजाद्याः । आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥
Verse
सोऽयं परात्मा पुरुषः पुराणः एकः स्वयं ज्योतिरनन्त आद्यः । मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥७॥
Verse
अयं हि विश्वोद्भवसंयमानाम् एकः स्वमायागुणबिम्बितो यः । विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥८॥
Verse
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् । आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥९॥
Verse
जगतामादिभूतस्त्वं जगत् त्वं जगदाश्रयः । सर्वभूतेष्वसंयुक्त एको भाति भवान् परः ॥१०॥
Verse
ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् । वाच्यवाचकभेदेन भवानेव जगन्मयः ॥११॥
Verse
कार्यकारणकर्तृत्वफलसाधनभेदतः । एको विभासि राम त्वं मायया बहुरूपया ॥१२॥
Verse
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः । मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥१३॥
Verse
आकाशवत् त्वं सर्वत्र बहिरन्तर्गतोऽमलः । असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥१४॥
Verse
योषिन्मूढाऽहमज्ञा ते तत्त्वं जाने कथं विभो । तस्मात् ते शतशो राम नमस्कुर्यामनन्यधीः ॥१५॥
Verse
देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा । त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥१६॥
Verse
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥१७॥
Verse
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥१८॥
Verse
स्तुत्वैवं पुरुषं साक्षाद् राघवं पुरतः स्थितम् । परिक्रम्य प्रणम्याऽऽशु सानुज्ञाता ययौ पतिम् ॥१९॥
Verse
अहल्यया कृतं स्तोत्रं यः पठेद् भक्तिसंयुतः । स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥२०॥
Verse
पुत्राद्यर्थे पठेद् भक्त्या रामं हृदि निधाय च । संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥२१॥
Verse
सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः ॥२२॥
Verse
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः । नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥२३॥
Verse
॥इति श्रीमदध्यात्मरामायणे श्री-अहल्याविरचितं श्री-रामचन्द्रस्तोत्रं सम्पूर्णम्॥
