Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmarakṣāstotram

रामरक्षास्तोत्रम्

Verse

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्-हनुमान कीलकम्। श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः॥

Verse

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढ-सीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥

Verse

चरितं रघुनाथस्य शतकोटि-प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥

Verse

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् । सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकं स्वलीलया जगत्त्रातुम् आविर्भूतम् अजं विभुम् ॥

Verse

रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम्॥

Verse

शिरो मे राघवः पातु भालं दशरथात्मजः । कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥१॥

Verse

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥२॥

Verse

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥३॥

Verse

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । गुह्यं जितेन्द्रियः पातु पृष्ठः पातु रघूत्तमः ॥४॥

Verse

वक्षः पातु कबन्धारिः स्तनौ गीर्वाणवन्दितः । पार्श्वो कुलपतिः पातु कुक्षिमिक्ष्वाकुनन्दनः ॥५॥

Verse

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥६॥

Verse

जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥७॥

Verse

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥८॥

Verse

पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥९॥

Verse

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१०॥

Verse

जगजैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥११॥

Verse

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१२॥

Verse

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१३॥

Verse

आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥१४॥

Verse

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१५॥

Verse

फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१६॥

Verse

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥१७॥

Verse

आत्तसज्जधनुषाविषुस्पृशौ अक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणौ अग्रतः पथि सदैव गच्छताम् ॥१८॥

Verse

सन्नद्धः कवची खड्गी चापबाणधरो युवा । यच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥१९॥

Verse

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२०॥

Verse

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः ॥२१॥

Verse

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥२२॥

Verse

॥इति श्री-पद्मपुराणे वेदव्यासकृतौ भगवद्वसिष्ठ-श्री-बुधकौशिकप्रणीतं वज्रपञ्जरं नाम श्री-रामकवचं सम्पूर्णम्॥

Verse

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥१॥

Verse

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२॥

Verse

रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥३॥

Verse

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥४॥

Verse

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृह्णामि । श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥५॥

Verse

माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने ॥६॥

Verse

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥७॥

Verse

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥८॥

Verse

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥९॥

Verse

कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१०॥

Verse

आपदाम् अपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥११॥

Verse

भर्जनं भवबीजानाम् अर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥१२॥

Verse

रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥१३॥

Verse

राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥१४॥

Verse

॥श्री-सीतारामचन्द्रार्पणमस्तु॥

Verse

मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥

nāmarāmāyaṇam
ahalyākṛta-rāmastotram

Read next

More on रामरक्षास्तोत्रम्

  • श्रीरामरक्षास्तोत्रम्Kavach
  • श्रीरामरक्षास्तोत्रम् पद्ममहापुराणान्तर्गतम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms