sahasranAma
śrī lakṣmī nṛsiṃha sahastranāmastotram
श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम्
Verse
श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् ॥
Verse
श्रीलक्ष्मीनृसिंहाय नमः ॥
Verse
ध्यानम् श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥
Verse
स्तोत्रम् ब्रह्मोवाच ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे । वज्रदेहाय वज्राय नमो वज्रनखाय च ॥
Verse
१ ॥
Verse
वासुदेवाय वन्द्याय वरदाय वरात्मने । वरदाभयहस्ताय वराय वररूपिणे ॥
Verse
२ ॥
Verse
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः । प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥
Verse
३ ॥
Verse
परात्परपरेशाय पवित्राय पिनाकिने । पावनाय प्रसन्नाय पाशिने पापहारिणे ॥
Verse
४ ॥
Verse
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः । तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥
Verse
५ ॥
Verse
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः । पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥
Verse
६ ॥
Verse
सिंहाय सिंहराजाय जगद्वश्याय ते नमः । अट्टहासाय रोषाय जलवासाय ते नमः ॥
Verse
७ ॥
Verse
भूतावासाय भासाय श्रीनिवासाय खड्गिने । खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥
Verse
८ ॥
Verse
नमो मूलाधिवासाय धर्मवासाय धन्विने । धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥
Verse
९ ॥
Verse
शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च । निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥
Verse
१० ॥
Verse
निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च । निरालम्बाय नीलाय निष्कलाय कलाय च ॥
Verse
११ ॥
Verse
निमेषाय निबन्धाय निमेषगमनाय च । निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥
Verse
१२ ॥
Verse
निर्मलाय निबन्धाय निर्मोहाय निराकृते । नमो नित्याय सत्याय सत्कर्मनिरताय च ॥
Verse
१३ ॥
Verse
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने । हरीशाय च शेषाय गुडाकेशाय वै नमः ॥
Verse
१४ ॥
Verse
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च । जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥
Verse
१५ ॥
Verse
कुशेशयाय कूलाय केशवाय नमो नमः । सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥
Verse
१६ ॥
Verse
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने । प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥
Verse
१७ ॥
Verse
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च । प्रकाशाय प्रतापाय प्रज्वालायोज्ज्वलाय च ॥
Verse
१८ ॥
Verse
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने । महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥
Verse
१९ ॥
Verse
कालान्तकाय कल्पाय कलनाय कृते नमः । कालचक्राय चक्राय वषट्चक्राय चक्रिणे ॥
Verse
२० ॥
Verse
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च । कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥
Verse
२१ ॥
Verse
संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च । अरूपाय स्वरूपाय हरये परमात्मने ॥
Verse
२२ ॥
Verse
अजयायादिदेवाय अक्षयाय क्षयाय च । अघोराय सुघोराय घोरघोरतराय च ॥
Verse
२३ ॥
Verse
नमोऽस्त्वघोरवीर्याय लसद्धोराय ते नमः । घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥
Verse
२४ ॥
Verse
अमोघाय गुणौघाय अनघायाघहारिणे । मेघनादाय नादाय तुभ्यं मेधात्मने नमः ॥
Verse
२५ ॥
Verse
मेघवाहनरूपाय मेघश्यामाय मालिने । व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥
Verse
२६ ॥
Verse
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च । विकटास्याय वीराय विष्टरश्रवसे नमः ॥
Verse
२७ ॥
Verse
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च । विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥
Verse
२८ ॥
Verse
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे । वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥
Verse
२९ ॥
Verse
विधानाय विधेयाय विजयाय जयाय च । विबुधाय विभावाय नमो विश्वम्भराय च ॥
Verse
३० ॥
Verse
वीतरागाय विप्राय विटङ्कनयनाय च । विपुलाय विनीताय विश्वयोने नमो नमः ॥
Verse
३१ ॥
Verse
चिदम्बराय वित्ताय विश्रुताय वियोनये । विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥
Verse
३२ ॥
Verse
कल्पनाय स्वरूपाय फणितल्पाय वै नमः । तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥
Verse
३३ ॥
Verse
तपनाय तरक्षाय तापत्रयहराय च । ताराकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥
Verse
३४ ॥
Verse
तक्षकाय तनुत्राय तटिने तरलाय च । शतरूपाय शान्ताय शतधाराय ते नमः ॥
Verse
३५ ॥
Verse
शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये । शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥
Verse
३६ ॥
Verse
नमः सहस्त्रशिरसे सहस्त्रवदनाय च । सहस्त्राक्षाय देवाय दिशश्श्रोत्राय ते नमः ॥
Verse
३७ ॥
Verse
नमः सहस्त्रजिह्वाय महाजिह्वाय ते नमः । सहस्त्रनामधेयाय सहस्त्राक्षिधराय च ॥
Verse
३८ ॥
Verse
सहस्त्रबाहवे तुभ्यं सहस्त्रचरणाय च । सहस्त्रार्कप्रकाशाय सहस्त्रायुधधारिणे ॥
Verse
३९ ॥
Verse
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः । सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥
Verse
४० ॥
Verse
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः । प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥
Verse
४१ ॥
Verse
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः । अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥
Verse
४२ ॥
Verse
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च । रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥
Verse
४३ ॥
Verse
भूतपालाय भूताय भूतवासाय भूतिने । भूतवेतालघाताय भूताधिपतये नमः ॥
Verse
४४ ॥
Verse
भूतग्रहविनाशाय भूतसंयमिने नमः । महाभूताय भृगवे सर्वभूतात्मने नमः ॥
Verse
४५ ॥
Verse
सर्वारिष्टविनाशाय सर्वसम्पत्कराय च । सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥
Verse
४६ ॥
Verse
सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने । सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥
Verse
४७ ॥
Verse
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने । सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥
Verse
४८ ॥
Verse
सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने । पिङ्गक्षायैकश्रृङ्गाय द्विश्रृङ्गाय मरीचये ॥
Verse
४९ ॥
Verse
बहुश्रृङ्गाय लिङ्गाय महाश्रृङ्गाय ते नमः । माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥
Verse
५० ॥
Verse
महादेवाय देवाय मातुलुङ्गधराय च । महामायाप्रसूताय प्रस्तुताय च मायिने ॥
Verse
५१ ॥
Verse
अनन्तानन्तरूपाय मायिने जलशायिने । महोदराय मन्दाय मददाय मदाय च ॥
Verse
५२ ॥
Verse
मधुकैटभहन्त्रे च माधवाय मुरारये । महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥
Verse
५३ ॥
Verse
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे । मायातीताय मायाय महावीराय ते नमः ॥
Verse
५४ ॥
Verse
महातेजाय बीजाय तेजोधाम्ने च बीजिने । तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥
Verse
५५ ॥
Verse
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च । शिपिविष्टाय ह्रष्टाय पुष्टाय परमेष्ठिने ॥
Verse
५६ ॥
Verse
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने । नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥
Verse
५७ ॥
Verse
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च । वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥
Verse
५८ ॥
Verse
कण्ठीरवाय लुण्ठाय निःशठाय हठाय च । सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुःसामगाय च ॥
Verse
५९ ॥
Verse
ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे । त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥
Verse
६० ॥
Verse
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने । नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥
Verse
६१ ॥
Verse
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे । अमृताय अनन्ताय अमितायामितौजसे ॥
Verse
६२ ॥
Verse
अपमृत्युविनाशाय अपस्मारविघातिने । अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥
Verse
६३ ॥
Verse
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे । सद्योजाताय सङ्गाय वैद्युताय नमो नमः ॥
Verse
६४ ॥
Verse
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने । वागीश्वराय गोपाय गोहिताय गवाम्पते ॥
Verse
६५ ॥
Verse
गन्धर्वाय गभीराय गर्जितायोर्जिताय च । पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥
Verse
६६ ॥
Verse
पद्माभाय सुनाभाय पद्मनाभाय मानिने । पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥
Verse
६७ ॥
Verse
पद्मोदराय पूताय पद्मकल्पोद्भवाय च । नमो ह्रत्पद्मवासाय भूपद्मोद्धरणाय च ॥
Verse
६८ ॥
Verse
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च । ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥
Verse
६९ ॥
Verse
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः । सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥
Verse
७० ॥
Verse
परब्रह्मस्वरूपाय परब्रह्मात्मने नमः । नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥
Verse
७१ ॥
Verse
अथर्वशिरसे नित्यशनिप्रमिताय च । नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥
Verse
७२ ॥
Verse
लावण्याय लवित्राय नमस्ते भासकाय च । लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥
Verse
७३ ॥
Verse
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे । वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥
Verse
७४ ॥
Verse
पश्यामि त्वां महसिंहं हारिणं वनमालिनम् । किरीटिनं कुण्डलिनं सर्वाङ्ग सर्वतोमुखम् ॥
Verse
७५ ॥
Verse
सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम् । सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥
Verse
७६ ॥
Verse
बहुयोजनविस्तीर्णं बहुयोजनमायतम् । बहुयोजनहस्तांघ्रिं बहुयोजननासिकम् ॥
Verse
७७ ॥
Verse
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् । महानादं महारौद्रं महाकायं महाबलम् ॥
Verse
७८ ॥
Verse
आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा । आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥
Verse
७९ ॥
Verse
नमोऽस्तु नारायणनारसिंह नमोऽस्तु नारायणवीरसिंह । नमोऽस्तु नारायणक्रूरसिंह नमोऽस्तु नारायणदिव्यसिंह ॥
Verse
८० ॥
Verse
नमोऽस्तु नारायणव्याघ्रसिंह नमोऽस्तु नारायणपुच्छसिंह । नमोऽस्तु नारायणपूर्णसिंह नमोऽस्तु नारायणरौद्रसिंह ॥
Verse
८१ ॥
Verse
नमो नमो भीषणभद्रसिंह नमो नमो विह्वलनेत्रसिंह । नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥
Verse
८२ ॥
Verse
नमो नमो निर्जितकालीसिंह नमो नमः कल्पितकल्पसिंह । नमो नमः कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥
Verse
८३ ॥
Verse
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥
Verse
८४ ॥
Verse
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्गाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥
Verse
८५ ॥
Verse
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥
Verse
८६ ॥
Verse
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥
Verse
८७ ॥
Verse
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च । पृथिवी अन्तरिक्षं त्वं पर्वतारण्यमेव च ॥
Verse
८८ ॥
Verse
कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् । अहोरात्रं त्रिसन्ध्यं च पक्षमासर्तुवत्सराः ॥
Verse
८९ ॥
Verse
युगादियुगभेदस्त्वं संयुगे युगसन्धयः । नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥
Verse
९० ॥
Verse
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः । सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥
Verse
९१ ॥
Verse
प्राणस्त्वं प्राणिनां प्रत्यगामा त्वं सर्वदेहिनाम् । सुज्योतिस्त्वं परंज्योतिरात्मज्योतिः सनातनः ॥
Verse
९२ ॥
Verse
ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः । स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥
Verse
९३ ॥
Verse
हन्तकारो निराकारो वेगाकारश्च शङ्करः । अकारादिहकारान्त ॐकारो लोककारकः ॥
Verse
९४ ॥
Verse
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः । चतुर्मूर्तिश्चतुर्वेदमयोत्तमः ॥
Verse
९५ ॥
Verse
लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः । लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥
Verse
९६ ॥
Verse
लोकाधारो बृहल्लोको लोकालोकमयो विभुः । लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥
Verse
९७ ॥
Verse
अनादिस्त्वमनन्तस्त्वमभूतो भूतविग्रहः । स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥
Verse
९८ ॥
Verse
त्वं गतिस्त्वं मतिर्मह्मं पिता माता गुरुः सखा । सुहृदश्चात्मरुपस्त्वं त्वां विना नास्ति मे गतिः ॥
Verse
९९ ॥
Verse
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः । बहुरूपाय रूपाय पञ्चरूपधराय च ॥
Verse
१०० ॥
Verse
भद्ररूपाय रूढाय योगरूपाय योगिने । समरूपाय योगाय योगपीठस्थिताय च ॥
Verse
१०१ ॥
Verse
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने । ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥
Verse
१०२ ॥
Verse
धराधराय धर्माय धारणाभिरताय च । नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥
Verse
१०३ ॥
Verse
दामोदराय दान्ताय दानवान्तकराय च । नमः संसारवैद्याय भेषजाय नमो नमः ॥
Verse
१०४ ॥
Verse
सीरध्वजाय शीताय वातायाप्रमिताय च । सारध्वजाय शीताय वातायाप्रमिताय च ॥
Verse
१०५ ॥
Verse
असिधर्मरायैव षट्कर्मनिरताय च । विकर्माय सुकर्माय परकर्मविधायिने ॥
Verse
१०६ ॥
Verse
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे । करिचर्मवसानाय करालवदनाय च ॥
Verse
१०७ ॥
Verse
कवये पद्मगर्भाय भूतगर्भघृणानिधे । ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥
Verse
१०८ ॥
Verse
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये । नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥
Verse
१०९ ॥
Verse
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने । हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥
Verse
११० ॥
Verse
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च । नमो हिरण्यश्रृङ्गय निःश्रृङ्गाय च श्रृङ्गिणे ॥
Verse
१११ ॥
Verse
भैरवाय सुकेशाय भीषणायान्त्रमालिने । चण्डाय रुण्डमालाय नमो द्ण्डधराय च ॥
Verse
११२ ॥
Verse
अखण्डतत्त्वरूपाय कमण्डलुधराय च । नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥
Verse
११३ ॥
Verse
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः । नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥
Verse
११४ ॥
Verse
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः । मूलासिंहाय मूलाय बृहत्सिंहाय ते नमः ॥
Verse
११५ ॥
Verse
पातालस्थितसिंहाय नमः पर्वतवासिने । नमो जलस्थासिंहाय अन्तरिक्षस्थिताय च ॥
Verse
११६ ॥
Verse
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः । अनन्तसिंहसिंहाय अनन्तगतये नमः ॥
Verse
११७ ॥
Verse
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे । अभयङ्करसिंहाय नरसिंहाय ते नमः ॥
Verse
११८ ॥
Verse
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः । सप्ताब्धिमेखलायैव सत्यासत्यस्वरूपिणे ॥
Verse
११९ ॥
Verse
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च । सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥
Verse
१२० ॥
Verse
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च । स्वच्छाय स्वच्छरूपाय स्वच्छन्दोय च ते नमः ॥
Verse
१२१ ॥
Verse
श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये । शुचिश्रवाय शूराय सुप्रभाय सुधान्विने ॥
Verse
१२२ ॥
Verse
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च । सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नम: ॥
Verse
१२३ ॥
Verse
सुप्रभाय स्वभावाय भवाय विभवाय च । सुशाखाय विशाखाय सुमुखाय मुखाय च ॥
Verse
१२४ ॥
Verse
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च । सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥
Verse
१२५ ॥
Verse
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये । खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥
Verse
१२६ ॥
Verse
नागकेयूरहाराय नागेन्द्रायाघमर्दिने । नदीवासाय नग्नाय नानारूपधराय च ॥
Verse
१२७ ॥
Verse
नागेश्वराय नागाय नमिताय नराय च । नागान्तकरथायैव नरनारायणाय च ॥
Verse
१२८ ॥
Verse
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः । नमो यज्ञवराहाय नरसिंहाय ते नमः ॥
Verse
१२९ ॥
Verse
विक्रमाक्रान्तलोकाय वामनाय महौजसे । नमो भार्गवरामाय रावणान्तकराय च ॥
Verse
१३० ॥
Verse
नमस्ते बलरामाय कंसप्रध्वंसकारिणे । बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥
Verse
१३१ ॥
Verse
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च । क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥
Verse
१३२ ॥
Verse
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे । स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥
Verse
१३३ ॥
Verse
शालग्रामनिवासाय क्षीराब्धिशयनाय च । श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥
Verse
१३४ ॥
Verse
योगिहृत्पद्मवासाय महाहासाय ते नमः । गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥
Verse
१३५ ॥
Verse
नमो मूलाधिवासाय नीलवस्त्रधराय च । पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥
Verse
१३६ ॥
Verse
रक्तमालाविभूषाय रक्तगन्धानुलेपिने । धुरन्धराय धूर्ताय दुर्धराय धराय च ॥
Verse
१३७ ॥
Verse
दुर्मदाय दुरन्ताय दुर्धराय नमो नमः । दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥
Verse
१३८ ॥
Verse
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः । दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥
Verse
१३९ ॥
Verse
उन्मत्ताय प्रमत्ताय नमो दैत्यारसे नमः । रसज्ञाय रसेशाय अरक्तरसनाय च ॥
Verse
१४० ॥
Verse
पथ्याय परितोषाय रथ्याय रसिकाय च । ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतस ॥
Verse
१४१ ॥
Verse
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे । परप्रध्वंसकायैव शङ्खचक्रधराय च ॥
Verse
१४२ ॥
Verse
गदापद्मधरायैव पञ्चबाणधराय च । कामेश्वरायैव कामाय कामपालाय कामिने ॥
Verse
१४३ ॥
Verse
नमः कामविहाराय कामरूपधराय च । सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥
Verse
१४४ ॥
Verse
नमः कामविहाराय कामरूपधराय च । सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥
Verse
१४५ ॥
Verse
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च । भीष्माय भीप्रदायैव भीमविक्रमणाय च ॥
Verse
१४६ ॥
Verse
मृगग्रीवाय जीवाय जितायाजितकारिणे । जटिने जामदग्न्याय नमस्ते जातवेदसे ॥
Verse
१४७ ॥
Verse
जपाकुसुमवर्णाय जप्याय जपिताय च । जरायुजायाण्डजाय स्वदेजायोद्भिजाय च ॥
Verse
१४८ ॥
Verse
जनार्दनाय रामाय जाह्नवीजनकाय च । जराजन्मादिदूराय प्रद्युम्राय प्रमोदिने ॥
Verse
१४९ ॥
Verse
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः । चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥
Verse
१५० ॥
Verse
इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च । अतीन्द्रियाय साराय इन्दिरापतये नमः ॥
Verse
१५१ ॥
Verse
ईशानाय च ईड्याय ईशिताय इनाय च । व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥
Verse
१५२ ॥
Verse
व्योमाधाराय च व्योमवक्त्रायासुरघातिने । नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥
Verse
१५३ ॥
Verse
सुकुमाराय रामाय शुभाचाराय वै नमः । विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥
Verse
१५४ ॥
Verse
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने । एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥
Verse
१५५ ॥
Verse
चतुर्विंशकात्मने नित्यं सप्तविंशतिमूर्तये । षडविंशकात्मने नित्यं सप्तविंशतिकात्मने ॥
Verse
१५६ ॥
Verse
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः । भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥
Verse
१५७ ॥
Verse
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च । स्निग्धांय च विदग्धाय मुग्धाय मुनये नमः ॥
Verse
१५८ ॥
Verse
प्रियंवदाय श्रव्याय स्त्रुक्स्त्रुवाय श्रिताय च । गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥
Verse
१५९ ॥
Verse
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः । उग्राय उग्रवेगाय उग्रकर्मरताय च ॥
Verse
१६० ॥
Verse
उग्रनेत्राय व्यग्राय समग्रगुणशालिने । बालग्रहविनाशाय पिशाचग्रहघातिने ॥
Verse
१६१ ॥
Verse
दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च । वृषध्वजाय वृष्णाय वृषाय वृषभाय च ॥
Verse
१६२ ॥
Verse
उग्रश्रवाय शान्ताय नमः श्रुतिधराय च । नमस्ते देवदेवेश नमस्ते मधुसूदन ॥
Verse
१६३ ॥
Verse
नमस्ते पुण्डरीकक्ष नमस्ते दुरितक्षय । नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥
Verse
१६४ ॥
Verse
नमस्ते नरसिंहाय नमस्ते गरुडध्वज । यज्ञनेत्र नमस्तेऽस्तु कलध्वज जयध्वज ॥
Verse
१६५ ॥
Verse
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय । महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥
Verse
१६६ ॥
Verse
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर । पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥
Verse
१६७ ॥
Verse
नमो नमस्ते जयसिंहरुप नमो नमस्ते नरसिंहरूप । नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥
Verse
१६८ ॥
Verse
उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् । देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजस ॥
Verse
१६९ ॥
Verse
अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् । दृष्ट्वा तु शङ्किताः सर्वा देवतास्त्वामुपागताः ॥
Verse
१७० ॥
Verse
एतान् पश्य महेशानं ब्रह्माणं मां शचीपतिम् । दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥
Verse
१७१ ॥
Verse
सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् । लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥
Verse
१७२ ॥
Verse
प्रसीद त्वं महासिंह उग्रभावमिमं त्यज । प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥
Verse
१७३ ॥
Verse
इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः । प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥
Verse
१७४ ॥
Verse
मार्कण्डेय उवाच दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् । स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥
Verse
१७५ ॥
Verse
अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् । संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥
Verse
१७६ ॥
Verse
श्रीनृसिंह उवाच भो भो देववराः सर्वे पितामहपुरोगमाः । श्रृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥
Verse
१७७ ॥
Verse
यद्धितं भवतां नूनं तत्करिष्यामि साम्प्रतम् । ॥
Verse
फलश्रुतिः ॥
Verse
एवं नामसहस्त्रं मे त्रिसन्ध्यं यः पठेच्छुचिः ॥
Verse
१७८ ॥
Verse
श्रृणोति वा श्रावयति पूजान्ते भक्तिसंयुतः । सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥
Verse
१७९ ॥
Verse
यो नामभिर्नृसिंहाद्यैरर्चयेत् क्रमशो मम । सर्वतीर्थेषु यप्तुण्यं सर्वतीर्थेषु यत्फलम् ॥
Verse
१८० ॥
Verse
सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् । जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥
Verse
१८१ ॥
Verse
सर्वपापविनिर्मुक्तस्तद्विष्णोः परमं पदम् । मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥
Verse
१८२ ॥
Verse
भूतवेतालकूष्माण्डपिशाचब्रह्मराक्षसाः । शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥
Verse
१८३ ॥
Verse
दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः । ये च स्न्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिका ॥
Verse
१८४ ॥
Verse
निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः । कुक्षिरोगं च ह्रद्रोगं शूलापस्मारमेव च ॥
Verse
१८५ ॥
Verse
एकाहिकं द्वयाहिकं च चातुर्थिकमथ ज्वरम् । आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥
Verse
१८६ ॥
Verse
शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात् सुराः । राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥
Verse
१८७ ॥
Verse
जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् । विषा अप्यमृता यान्ति नृसिंहस्मरणात् सुराः ॥
Verse
१८८ ॥
Verse
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् । विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥
Verse
१८९ ॥
Verse
व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा । अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥
Verse
१९० ॥
Verse
सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः । एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥
Verse
१९१ ॥
Verse
जलसंतरणे चैव पर्वतारण्यमेव च । वने विचरन् मर्त्यो दुर्गमे विषमे पथि ॥
Verse
१९२ ॥
Verse
कलिप्रवेशने चापि नारसिंहं न विस्मरेत् । ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥
Verse
१९३ ॥
Verse
मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः । वेदानां दूषकश्चापि मातापितृविनिन्दकः ॥
Verse
१९४ ॥
Verse
असत्यस्तु तथा यज्ञनिन्दको लोकनिन्दकः । स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥
Verse
१९५ ॥
Verse
बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः । यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥
Verse
१९६ ॥
Verse
गच्छन तिष्ठन् स्वपन् भुज्जन् जाग्रन्नापि हसन्नपि । नृसिंहेति नृसिंहेत नृसिंहेति सदा स्मरन् ॥
Verse
१९७ ॥
Verse
पुमान् न लिप्यते पापैर्भुक्तिं मुक्तिं च वन्दति । नारी सुभगतामेति सौभाग्यं च स्वरुपताम् ॥
Verse
१९८ ॥
Verse
भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति । न सपत्नी च जन्मान्ते सम्यग् ज्ञानी भवेद् द्विजः ॥
Verse
१९८ ॥
Verse
भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् । तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥
Verse
२०० ॥
Verse
मार्कण्डेय उवाच इत्युक्त्वा देवदेवेशो लक्ष्मीमलिङ्ग्य लीलया । प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥
Verse
२०१ ॥
Verse
श्रीशैलस्य प्रभासे तु लोकानां च हिताय वै । स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत् तदा ॥
Verse
२०२ ॥
Verse
ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् । दैवतैः सह सुप्रीतो ह्मात्मलोलं ययौ स्वयम् ॥
Verse
२०३ ॥
Verse
हिरण्यकशिपोर्भीत्या प्रललाप शचीपतिः । स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥
Verse
२०४ ॥
Verse
नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः । दिक्पालश्च सुसम्प्राप्तः स्वस्वस्थानमनुत्तमम् ॥
Verse
२०५ ॥
Verse
धर्मे मति: समस्तानां प्रजानामभवत् तदा । एवं नामसहस्त्रं मे ब्रह्मणा निर्मितं पुरा ॥
Verse
२०६ ॥
Verse
पुत्रानध्यापयामास सनकादीन् महामतिः । ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥
Verse
२०७ ॥
Verse
देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः । गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥
Verse
२०८ ॥
Verse
यस्य स्तोत्रस्य पाठद्धि विशुद्धमनसोऽभवन् । सनत्कुमारः सम्प्राप्तो भारद्वाजो महामतिः ॥
Verse
२०९ ॥
Verse
तस्मादाङ्गिरसः प्राप्तस्तस्मात् प्राप्तो महाक्रतुः । जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ॥
Verse
२१० ॥
Verse
तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः । क्रतुत्र्जयाय स प्राह जतुकर्ण्याय संयमी ॥
Verse
२११ ॥
Verse
विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च । क्रमात् स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥
Verse
२१२ ॥
Verse
सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च सः । उपादिष्टोऽस्मि तेनाहमिदं नामसहस्त्रकम् ॥
Verse
२१३ ॥
Verse
तत्प्रसादामृत्युर्मे यस्मात् कस्माद्भयं न हि । मया च कथितं नारसिंहस्तोत्रमिमं तव ॥
Verse
२१४ ॥
Verse
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् । सर्वभूताश्रयं देवं नृसिंहं भक्तबत्सलम् ॥
Verse
२१५ ॥
Verse
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः । प्राप्स्यसे महतीं सिद्धिं सर्वांन् कामान् वरोत्तमान् ॥
Verse
२१६ ॥
Verse
अयमेव परो धर्मस्त्विदमेव परंतपः । इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥
Verse
२१७ ॥
Verse
अवमेव सदाचारस्त्वयमेव सदा मखः । इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥
Verse
२१८ ॥
Verse
नृसिंहमन्त्रादन्यत्र वैदिकं तु न विद्यते । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥
Verse
२१९ ॥
Verse
कथितं ते नृसिंहस्य चरितं पापनाशनम् । सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥
Verse
२२० ॥
Verse
॥
Verse
इति श्रीनृसिंहपुराणे श्रीलक्ष्मीनृसिंहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
