aSTottaranAma
lakṣmīnṛsiṃhāṣṭottaraśatanāmastotram
लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीगणेशाय नमः ।
Verse
नारसिंहो महासिंहो दिव्यसिंहो महाबलः । उग्रसिंहो महादेवः स्तम्भजश्वोग्रलोचनः ॥१॥
Verse
रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः । हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥२॥
Verse
पञ्चाननः परं ब्रह्म चाघोरो घोरविक्रमः । ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥३॥
Verse
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः । महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥४॥
Verse
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः । गुणभद्रो महाभद्रो बलभद्रः सुभद्रकः ॥५॥
Verse
करालो विकरालश्च विकर्ता सर्वकर्तृकः । शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥६॥
Verse
भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः । अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥७॥
Verse
विश्वम्भरोऽद्भुतो भव्य श्रीविष्णुः पुरुषोत्तमः । अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥८॥
Verse
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः । वज्रदंष्ट्रो वज्रनखो महानन्दः परन्तपः ॥९॥
Verse
सर्वमन्त्रैकरूपश्च सर्वमन्त्रविदारणः । सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥१०॥
Verse
वैशाख शुक्लभूतोत्थशरणागतवत्सलः । उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥११॥
Verse
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः । श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥१२॥
Verse
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् । परमात्मा परं ज्योतिर्निर्गुणश्च नृकेसरी ॥१३॥
Verse
परमत्वं परं धाम सच्चिदानन्दविग्रहः । लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥१४॥
Verse
इदं लक्ष्मीनृसिंहस्य नाम्नामष्टोत्तरं शतम् । त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥१५॥
Verse
इति लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
