sahasranAma
śrī lakṣmīnṛsiṃhasahasranāmastotram
श्री लक्ष्मीनृसिंहसहस्रनामस्तोत्रम्
Verse
ध्यानम् सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितम् । योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ॥१॥
Verse
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविम् । छ्त्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥२॥
Verse
लक्ष्मीचारुकुचद्वंद्वकुंकुमाङ्कितवक्षसे । नमो नृसिंहनाथाय सर्वमङ्गलमूर्तये ॥३॥
Verse
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् । भूयो लालितसंसारच्छेद हेतुं जगद्गुरुम् ॥४॥
Verse
ब्रह्मोवाच- ओं नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे । वज्रदेहाय वज्राय नमो वज्रनखाय च ॥१॥
Verse
वासुदेवाय वन्द्याय वरदाय वरात्मने । वरदाभयहस्ताय वराय वररूपिणे ॥२॥
Verse
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः । प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥३॥
Verse
परात्पर परेशाय पवित्राय पिनाकिने । पावनाय प्रसन्नाय पाशिने पापहारिणे ॥४॥
Verse
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः तत्त्वरूपाय तथ्याय पुराणपुरुषाय च ॥५॥
Verse
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः । पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥६॥
Verse
सिंहाय सिंहराजाय जगद्वश्याय ते नमः । अट्टहासाय दोषाय जलवासाय ते नमः ॥७॥
Verse
भूतावासाय भासाय श्रीनिवासाय खड्गिने । खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥८॥
Verse
नमो मूलाधिवासाय धर्मावासाय धन्विने । धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥९॥
Verse
शुभंजयाय सूत्राय नमश्शत्रुञ्जयाय च । निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥१०॥
Verse
निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च । निरालम्बाय नीलाय निष्कलाय कलाय च ॥११॥
Verse
निमेषाय निबंधाय निमेषगमनाय च । निर्द्वंद्वाय निराशाय निश्चयाय निराय च ॥१२॥
Verse
निर्मलाय निबन्धाय निर्मोहाय निराकृते । नमो नित्याय सत्याय सत्कर्मनिरताय च ॥१३॥
Verse
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने । हरीशाय च शेषाय गुडाकेशाय वै नमः ॥१४॥
Verse
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च । जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥१५॥
Verse
कुशेशयाय कूलाय केशवाय नमो नमः । सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥१६॥
Verse
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने । प्रच्छन्नाय प्रमोदाय प्रभवे विभवे नमः ॥१७॥
Verse
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च । प्रकाशाय प्रतापाय प्रज्ज्वलायोज्ज्वलाय च ॥१८॥
Verse
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने । महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥१९॥
Verse
कालान्तकाय कल्पाय कलनाय कृते नमः । कालचक्राय चक्राय वषट्चक्राय चक्रिणे ॥२०॥
Verse
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च । कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥२१॥
Verse
संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च । अरूपाय स्वरूपाय हरये परमात्मने ॥२२॥
Verse
अजयायादिदेवाय अक्षयाय क्षयाय च । अघोराय सुघोराय घोरघोरतराय च ॥२३॥
Verse
नमोस्त्वघोरवीर्याय लसद्घोराय ते नमः । घोराध्यक्षाय दक्षाय दक्षिणार्याय शंभवे ॥२४॥
Verse
अमोघाय गुणौघाय अनघायाघहारिणे । मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥२५॥
Verse
मेघवाहनरूपाय मेघश्यामाय मालिने । व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥२६॥
Verse
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च । विटास्याय वीर्याय विष्टरश्रवसे नमः ॥२७॥
Verse
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च । विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥२८॥
Verse
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे । वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥२९॥
Verse
विधानाय विधेयाय विजयाय जयाय च । विबुधाय विभावाय नमो विश्वंभराय च ॥३०॥
Verse
वीतरागाय विप्राय विटंकनयनाय च । विपुलाय विनीताय विश्वयोने नमो नमः ॥३१॥
Verse
चिदंबराय वित्ताय विश्रुताय वियोनये । विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥३२॥
Verse
कल्पनाय स्वरूपाय फणितल्पाय वै नमः । तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥३३॥
Verse
तपनाय तरक्षाय तापत्रयहराय च । तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥३४॥
Verse
तक्षकाय तनुत्राय तटिने तरलाय च । शतरूपाय शान्ताय शतदाराय ते नमः ॥३५॥
Verse
शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये । शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥३६॥
Verse
नमस्सहस्रशिरसे सहस्रवदनाय च । सहस्राक्षाय देवाय दिशःश्रोत्राय ते नमः ॥३७॥
Verse
नमस्सहस्रजिह्वाय महाजिह्वाय ते नमः । सहस्रनामधेयाय सहस्राक्षिधराय च ॥३८॥
Verse
सहस्रबाहवे तुभ्यं सहस्रचरणाय च । सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥३९॥
Verse
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः । सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥४०॥
Verse
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः । प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥४१॥
Verse
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः । अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥४२॥
Verse
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च । रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥४३॥
Verse
भूतपालाय भूताय भूतावासाय भूतिने । भूतभेतालघाताय भूताधिपतये नमः ॥४४॥
Verse
भूतग्रहविनाशाय भूतसंयम ते नमः महाभूताय भृगवे सर्वभूतात्मने नमः ॥४५॥
Verse
सर्वारिष्टविनाशाय सर्वसंपत्कराय च । सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥४६॥
Verse
सर्वदुःखप्रशांताय सर्वसौभाग्यदायिने । सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥४७॥
Verse
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने । सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥४८॥
Verse
सर्वाभिचारहंत्रे च सर्वैश्वर्यविधायिने । पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥४९॥
Verse
बहुशृङ्गाय लिंगाय महाशृङ्गाय ते नमः । माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥५०॥
Verse
महादेवाय देवाय मातुलुंगरदाय च ॥५१॥
Verse
महामायाप्रसूताय मायिने जलशायिने । महोदराय मंदाय मददाय मदाय च ॥५२॥
Verse
मधुकैटभहन्त्रे च माधवाय मुरारये । महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥५३॥
Verse
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे । मायातीताय मायाय महावीराय ते नमः ॥५४॥
Verse
महातेजाय बीजाय तेजोधाम्ने च बीजिने । तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥५५॥
Verse
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च । शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥५६॥
Verse
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने । नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥५७॥
Verse
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च । वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥५८॥
Verse
कंठीरवाय लुंठाय निश्शठाय हठाय च । सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥५९॥
Verse
ऋतुध्वजाय वज्राय मंत्रराजाय मंत्रिणे । त्रिणेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥६०॥
Verse
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने । नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥६१॥
Verse
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे । अमृताय अनन्ताय अमितायामितौजसे ॥६२॥
Verse
अपमृत्युविनाशाय अपस्मारविघातिने । अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥६३॥
Verse
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे । सद्योजाताय संघाय वैद्युताय नमो नमः ॥६४॥
Verse
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने वागीश्वराय गोपाय गोहिताय गवांपते ॥६५॥
Verse
गन्धर्वाय गभीराय गर्जितायोर्जिताय च पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥६६॥
Verse
पद्माभाय सुनाभाय पद्मनाभाय मानिने । पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥६७॥
Verse
पद्मोदरायपूताय पद्मकल्पोद्भवाय च । नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥६८॥
Verse
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च । ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥६९॥
Verse
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः । सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥७०॥
Verse
परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः । नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥७१॥
Verse
अथर्वशिरसे नित्यमशनिप्रतिमाय च । नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥७२॥
Verse
लावण्याय लवित्राय नमस्ते भासकाय च । लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥७३॥
Verse
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे । वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥७४॥
Verse
पश्यामि त्वां महासिंहं हारिणं वनमालिनम् । किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥७५॥
Verse
सर्वतः पाणिपादोरं सर्वतोऽक्षिशिरोमुखम् । सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥७६॥
Verse
बहुयोजनविस्तीर्णं बहुयोजनमायतम् । बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥७७॥
Verse
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् । महानादं महारौद्रं महाकायं महाबलम् ॥७८॥
Verse
आनाभेर्ब्रह्मणो रूपं आगलाद्वैष्णवं वपुः । आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतश्शिवम् ॥७९॥
Verse
नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह । नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥८०॥
Verse
नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायणपुच्छसिंह । नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह ॥८१॥
Verse
नमो नमो भीषण भद्रसींह नमो नमो विह्वलनेत्रसिंह । नमो नमो बृंहित भूतसिंह नमो नमो निर्मलचित्रसिंह ॥८२॥
Verse
नमो नमो निर्जितकालसिंह नमो नमःकल्पितकल्पसिंह । नमो नमः कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥८३॥
Verse
( खालील कंसातील चार श्लोक विश्वरूपदर्शन योग, भगवद्गीतेमधील आहेत, ते या सहस्त्रनाम स्तोत्रात समाविष्ट नाहीत. ) (द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥८४॥
Verse
अमी हि त्वां सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा मुनयस्सिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥८५॥
Verse
रुद्रादित्या वसवो ये च साध्या विश्वे देवा मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥८६॥
Verse
लेलिह्यसे ग्रसमानस्समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥८७॥) भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च । पृथ्वीमन्तरिक्षं त्वं पर्वतारण्यमेव च ॥८८॥
Verse
कलाकाष्ठादिलिप्तिस्त्वं मुहूर्तप्रहरादिकम् । अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥८९॥
Verse
युगादिर्युगभेदस्त्वं संयुगो युगसंधयः । नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥९०॥
Verse
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः । सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥९१॥
Verse
प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् । सुज्योतिस्त्वं परंज्योतिरात्मज्योतिस्सनातनः ॥९२॥
Verse
ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषांपतिः । स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥९३॥
Verse
हंतकारो निराकारो वेगाकारश्च शंकरः । अकारादिहकारान्त ओंकारो लोककारकः ॥९४॥
Verse
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः । चतुर्मूर्तिश्चतुर्दंष्ट्रः चतुर्वेदमयोत्तमः ॥९५॥
Verse
लोकप्रियो लोकगुरुः लोकेशो लोकनायकः । लोकसाक्षी लोकपतिः लोकात्मा लोकलोचनः ॥९६॥
Verse
लोकाधारो बृहल्लोको लोकालोकमयो विभुः । लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥९७॥
Verse
अनादिस्त्वमनन्तस्त्वं अभूतो भूतविग्रहः । स्तुतिस्स्तुत्यस्स्तवप्रीतः स्तोता नेता नियामकः ॥९८॥
Verse
त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुस्सखा । सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥९९॥
Verse
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः । बहुरूपाय रूपाय पञ्चरूपधराय च ॥१००॥
Verse
भद्ररूपाय रूढाय योगरूपाय योगिने समरूपाय योगाय योगपीठस्थिताय च ॥१०१॥
Verse
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥१०२॥
Verse
धराधराय धर्माय धारणाभिरताय च । नमो धात्रे च संधात्रे विधात्रे च धराय च ॥१०३॥
Verse
दामोदराय दांताय दानवान्तकराय च । नमस्संसारवैद्याय भेषजाय नमो नमः ॥१०४॥
Verse
सीरध्वजाय शीताय वातायाप्रमिताय च सारस्वताय संसारनाशनायाक्षमालिने ॥१०५॥
Verse
असिचर्मधरायैव षट्कर्मनिरताय च । विकर्माय सुकर्माय परकर्मविधायिने ॥१०६॥
Verse
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे । करिचर्मवसनाय करालवदनाय च ॥१०७॥
Verse
कवये पद्मगर्भाय भूतगर्भघृणानिधे । ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥१०८॥
Verse
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये । नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥१०९॥
Verse
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने । हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥११०॥
Verse
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च । नमो हिरण्यशृङ्गाय निश्शृङ्गाय च शृङ्गिणे ॥१११॥
Verse
भैरवाय सुकेशाय भिषणायान्त्रमालिने । चण्डाय रुण्डमालाय नमो दण्डधराय च ॥११२॥
Verse
अखण्डतत्त्वरूपाय कमण्डलुधराय च । नमस्ते खण्डसिंहाय सत्यसिंहाय तेनमः ॥११३॥
Verse
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः । नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥११४॥
Verse
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥११५॥
Verse
पातालस्थितसिंहाय नमः पर्वतवासिने । नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥११६॥
Verse
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः । अनन्तसिंहसिंहाय अनन्तगतये नमः ॥११७॥
Verse
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे । अभयंकरसिंहाय नरसिंहाय ते नमः ॥११८॥
Verse
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः । सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥११९॥
Verse
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च । सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥१२०॥
Verse
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च । स्वच्छाय स्वच्छरूपाय स्वच्छंदाय च ते नमः ॥१२१॥
Verse
श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये । शुचिश्रवाय शूराय सुप्रजाय सुधन्विने ॥१२२॥
Verse
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च । सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥१२३॥
Verse
सुप्रभाय स्वभावाय भवाय विभवाय च । सुशाखाय विशाखाय सुमुखाय मुखाय च ॥१२४॥
Verse
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च । सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥१२५॥
Verse
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये । खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥१२६॥
Verse
नागकेयूरहाराय नागेन्द्रायाघमर्दिने । नदीवासाय नग्नाय नानारूपधराय च ॥१२७॥
Verse
नागेश्वराय नागाय नमिताय नराय च । नागांतकरथायैव नरनारायणाय च ॥१२८॥
Verse
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः । नमो यज्ञवराहाय नरसिंहाय ते नमः ॥१२९॥
Verse
विक्रमाक्रान्तलोकाय वामनाय महौजसे । नमो भार्गवरामाय रावणान्तकराय च ॥१३०॥
Verse
नमस्ते बलरामाय कंसप्रद्ध्वंसकारिणे । बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥१३१॥
Verse
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च । क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥१३२॥
Verse
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे । स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥१३३॥
Verse
सालग्रामनिवासाय क्षीराब्धिशयनाय च । श्री शैलाद्रिनिवासाय शिवावासाय ते नमः ॥१३४॥
Verse
योगिहृत्पद्मवासाय महाहासाय ते नमः । गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥१३५॥
Verse
नमो मूलाधिवासाय नीलवस्त्रधराय च । पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥१३६॥
Verse
रक्तमालाविभूषाय रक्तगन्धानुलेपिने । धुरंधराय धूर्ताय दुर्धराय धराय च ॥१३७॥
Verse
दुर्मदाय दुरंताय दुर्धराय नमो नमः । दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥१३८॥
Verse
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः । दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥१३९॥
Verse
उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः । रसज्ञाय रसेशाय आरक्तरसनाय च ॥१४०॥
Verse
पथ्याय परितोषाय रथ्याय रसिकाय च । ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥१४१॥
Verse
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे । परप्रध्वंसकायैव शंखचक्रधराय च ॥१४२॥
Verse
गदापद्मधरायैव पञ्चबाणधराय च । कामेश्वराय कामाय कामपालाय कामिने ॥१४३॥
Verse
नमः कामविहाराय कामरूपधराय च सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥१४४॥
Verse
नमस्सोमाय वामाय वामदेवाय ते नमः । सामस्वनाय सौम्याय भक्तगम्याय वै नमः ॥१४५॥
Verse
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च । भीष्माय भीषदायैव भीमविक्रमणाय च ॥१४६॥
Verse
मृगग्रीवाय जीवाय जितायाजितकारिणे । जटिने जामदग्न्याय नमस्ते जातवेदसे ॥१४७॥
Verse
जपाकुसुमवर्णाय जप्याय जपिताय च । जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥१४८॥
Verse
जनार्दनाय रामाय जाह्नवीजनकाय च । जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥१४९॥
Verse
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः । चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥१५०॥
Verse
इन्द्रियायेंन्द्रियज्ञाय नमोस्त्विन्द्रानुजाय च । अतीन्द्रियाय साराय इन्दिरापतये नमः ॥१५१॥
Verse
ईशानाय च ईड्याय ईशिताय इनाय च । व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥१५२॥
Verse
व्योमाधाराय च व्योमवक्त्रायासुरघातिने । नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥१५३॥
Verse
सुकुमाराय रामाय शुभाचाराय वै नमः । विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥१५४॥
Verse
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने । एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥१५५॥
Verse
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये । षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥१५६॥
Verse
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः भावशुद्धात्म सिद्धाय साध्याय शरभाय च ॥१५७॥
Verse
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च । स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥१५८॥
Verse
प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च । गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥१५९॥
Verse
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः । उग्राय उग्रवेगाय उग्रकर्मरताय च ॥१६०॥
Verse
उग्रनेत्राय व्यग्राय समग्रगुणशालिने । बालग्रहविनाशाय पिशाचग्रहघातिने ॥१६१॥
Verse
दुष्टग्रहनिहंत्रे च निग्रहानुग्रहाय च । वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥१६२॥
Verse
उग्रश्रवाय शांताय नमः श्रुतिधराय च । नमस्ते देवदेवेश नमस्ते मधुसूदन ॥१६३॥
Verse
नमस्ते पुण्डरीकाक्ष नमस्ते दुरतिक्षय । नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥१६४॥
Verse
नमस्ते नरसिंहाय नमस्ते गरुडध्वज । यज्ञनेत्रे नमस्तेस्तु कालध्वज जयध्वज ॥१६५॥
Verse
अग्निनेत्रे नमस्तेऽस्तु नमस्ते ह्यमरप्रिय । महानेत्रे नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥१६६॥
Verse
धर्मनेत्रे नमस्तेऽस्तु नमस्ते करुणाकर पुण्यनेत्रे नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥१६७॥
Verse
नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप । नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥१६८॥
