sahasranAma
śrī viṣṇusahasranāmastotram
श्री विष्णुसहस्रनामस्तोत्रम्
Verse
उपक्रमश्लोकाः शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
Verse
यस्य द्विरदवक्त्राद्या पारिषद्या परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥
Verse
व्यासंवसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥३॥
Verse
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥४॥
Verse
अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥५॥
Verse
यस्य स्मरणमात्रेण जन्मसंसारबन्धना- द्विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥६॥
Verse
ओम् नमो विष्णवे प्रभविष्णवे ( महाभारतातील श्री विष्णुसहस्रनामस्तोत्र ) श्री वैशंपायन उवाच - श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत ॥१॥
Verse
किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं किमर्चन्तः प्राप्नुयुर्मानवाश्शुभम् ॥२॥
Verse
को धर्मः सर्वधर्माणां भवतः पर्मो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥
Verse
श्री भीष्म उवाच - जगत्प्रभुं देवदेवं अनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥४॥
Verse
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायंस्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥
Verse
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥६॥
Verse
ब्रह्मण्य़ं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥७॥
Verse
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥८॥
Verse
परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥९॥
Verse
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥१०॥
Verse
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥११॥
Verse
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१२॥
Verse
यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१३॥
Verse
“ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभु” [ऋषिर्नाम्नां सहस्र्स्य वेदव्यासो महामुनिः । छन्दोऽनुष्टुप्तथा देवो भगवान् देवकीसुतः ॥१४॥
Verse
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥१५॥
Verse
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥१६॥
Verse
पूर्वन्यासम्- ओं अस्य श्री विष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्री महाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शंखभृन्नन्दकीचक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः काल इति दिग्बन्धः । श्री विश्वरूप इति ध्यानम् । श्री महाविष्णु प्रीत्यर्थे सहस्रनामजपे विनियोगः॥
Verse
ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशंमेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१॥
Verse
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥२॥
Verse
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षस्थलशोभिकौस्तुभं नमामिविष्णुं शिरसा चतुर्भुजम् ॥३॥
Verse
छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमंबुदश्याममायताक्षमलङ्कृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥४॥] (इथून सहस्त्रनाम सुरू होत आहे) ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृत् भूतभृत्भावो भूतात्मा भूतभावनः ॥१॥
Verse
पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥
Verse
योगो योगविदांनेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥३॥
Verse
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥
Verse
स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाताविधाता धातुरुत्तमः ॥५॥
Verse
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरोध्रुवः ॥६॥
Verse
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥७॥
Verse
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥
Verse
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥९॥
Verse
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥
Verse
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥११॥
Verse
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥
Verse
रुद्रो बहुशिराः बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥१३॥
Verse
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥१४॥
Verse
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥१५॥
Verse
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥
Verse
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥१७॥
Verse
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥१८॥
Verse
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥१९॥
Verse
महेष्वासो महीभर्ता श्रीनिवासः सतांगतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदांपतिः ॥२०॥
Verse
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥२१॥
Verse
अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥२२॥
Verse
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥२३॥
Verse
अग्रणीर्ग्रामणीः श्रीमान्न्यायोनेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥२४॥
Verse
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥२५॥
Verse
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः ॥२६॥
Verse
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥२७॥
Verse
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥२८॥
Verse
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥२९॥
Verse
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥३०॥
Verse
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतःसेतुः सत्यधर्मपराक्रमः ॥३१॥
Verse
भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥३२॥
Verse
युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥३३॥
Verse
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥३४॥
Verse
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥३५॥
Verse
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥३६॥
Verse
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥३७॥
Verse
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिः ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥३८॥
Verse
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥३९॥
Verse
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥४०॥
Verse
उद्भवःक्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥४१॥
Verse
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥४२॥
Verse
रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतांश्रेष्ठो धर्मो धर्मविदुत्तमः ॥४३॥
Verse
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥४४॥
Verse
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥४५॥
Verse
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥४६॥
Verse
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥४७॥
Verse
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥४८॥
Verse
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥४९॥
Verse
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वल्त्सी रत्नगर्भो धनेश्वरः ॥५०॥
Verse
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥५१॥
Verse
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवोवॊ देवेशो देवभृद्गुरुः ॥५२॥
Verse
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥५३॥
Verse
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतांपतिः ॥५४॥
Verse
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥५५॥
Verse
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥५६॥
Verse
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥५७॥
Verse
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥५८॥
Verse
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥५९॥
Verse
भगवान्भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥६०॥
Verse
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥६१॥
Verse
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥६२॥
Verse
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥६३॥
Verse
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥६४॥
Verse
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥६५॥
Verse
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥६६॥
Verse
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥६७॥
Verse
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥६८॥
Verse
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥६९॥
Verse
कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥७०॥
Verse
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥७१॥
Verse
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥७२॥
Verse
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥७३॥
Verse
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥७४॥
Verse
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥७५॥
Verse
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥७६॥
Verse
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥७७॥
Verse
एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् । लोकबन्धुर्लोकनाथोमाधवो भक्तवत्सलः ॥७८॥
Verse
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥७९॥
Verse
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधाः मेधजो धन्यः सत्यमेधा धराधरः ॥८०॥
Verse
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥८१॥
Verse
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥८२॥
Verse
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥
Verse
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥८४॥
Verse
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥८५॥
Verse
सुवर्णाबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥८६॥
Verse
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥८७॥
Verse
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुंबरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥८८॥
Verse
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥८९॥
Verse
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥९०॥
Verse
भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥९१॥
Verse
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ता नियमो यमः ॥९२॥
Verse
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥९३॥
Verse
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विलोचनः सूर्यः सविता रविलोचनः ॥९४॥
Verse
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥९५॥
Verse
सनात्सनातनतमः कपिलः कपिरप्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥९६॥
Verse
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥९७॥
Verse
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥९८॥
Verse
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥९९॥
Verse
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥१००॥
Verse
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥१०१॥
Verse
आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥१०२॥
Verse
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥१०३॥
Verse
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥१०४॥
Verse
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥
Verse
आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥१०६॥
Verse
शङ्खभृन्नन्दकी चक्री शाङ्र्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥
Verse
सर्वप्रहरणायुध ॐ नम इति [वनमाली गदी शाङ्र्गी शङ्खी चक्री च नन्दकी । श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥१०८॥
Verse
श्री वासुदेवोऽभिरक्षतु ॐ नमः इति] फलश्रुति: इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषण प्रकीर्तितम् ॥१॥
Verse
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानव: ॥२॥
Verse
वेदान्तगो ब्रह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥३॥
Verse
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम् ॥४॥
Verse
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥५॥
Verse
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥६॥
Verse
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥७॥
Verse
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥८॥
Verse
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥९॥
Verse
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविमुक्तात्मा याति ब्रह्म सनातनम् ॥१०॥
Verse
न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥११॥
Verse
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥१२॥
Verse
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥१३॥
Verse
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य विर्येण विधृतानि महात्मनः ॥१४॥
Verse
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१५॥
Verse
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥१६॥
Verse
सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥१७॥
Verse
ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाऽजङ्गमं चेदं जगन्नारायणोद्भवम् ॥१८॥
Verse
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥१९॥
Verse
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींल्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥२०॥
Verse
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥२१॥
Verse
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥२२॥
Verse
न ते यान्ति पराभवम् ओं नम इति (खालील श्लोक सर्वांत शेवटी म्हणावेत.) श्री अर्जुन उचाच- पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥१॥
Verse
श्री भगवानुवाच – यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥२॥
Verse
स्तुत एव न संशय ओं नम इति श्री व्यास उवाच – वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥३॥
Verse
वासुदेव नमोऽस्तु त ओं नम इति श्री पार्वत्युवा च- केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥४॥
Verse
श्री ईश्वर उवाच – श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥५॥
Verse
श्री रामनाम वरानन ओं नम इति श्री ब्रह्मोवाच – नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥६॥
Verse
सहस्रकोटियुगधारिण ओं नम इति श्री सञ्जय उवाच – यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयोभूतिर्ध्रुवानीति मतिर्मम ॥७॥
Verse
श्री भगवानुवाच- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥८॥
Verse
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥९॥
Verse
आर्ता विषण्णा शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः । संकीर्त्य नारायण शब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु ॥१०॥
