aSTakam
toṭakāṣṭakam
तोटकाष्टकम्
Verse
विदिताखिलशास्त्रसुधाजलधे महितोपनिषद्कथितार्थनिधे हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥१॥
Verse
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वमिदं भव शङ्कर देशिक मे शरणम् ॥२॥
Verse
भवता जनता सुहिता भविता निजबोधविचारण चारुमते कलयेश्वरजीवविवेकविदं भव शङ्कर देशिक मे शरणम् ॥३॥
Verse
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शङ्कर देशिक मे शरणम् ॥४॥
Verse
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥५॥
Verse
जगतीमवितुं कलिताकृतयो विचरन्ति महामह्सश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम् ॥६॥
Verse
गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां न हि कोऽपि सुधीः । शरणागतवत्सल तत्वनिधे भव शङ्कर देशिक मे शरणम् ॥७॥
Verse
विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥८॥
