aSTakam
śrīsudarśanaṣaṭkam
श्रीसुदर्शनषट्कम्
Verse
सहस्रादित्यसङ्काशं सहस्रवदनं प्रभुम् । सहस्रदोः सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥१॥
Verse
हसन्तं हारकेयूरमुकुटाङ्गदभूषणम् । भूषणैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥२॥
Verse
साकारसहितं मन्त्रं पठन्तं शत्रुनिग्रहम् । सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥३॥
Verse
रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥४॥
Verse
हुंकारभैरवं भीमंप्रणतार्तिहरं प्रभुम् । सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥५॥
Verse
फट्कारान्तमनिर्देश्यं महामंत्रेण संयुतम् । शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥६॥
