aSTakam
śrīvaradarājāṣṭakam
श्रीवरदराजाष्टकम्
Verse
श्रीमत् काञ्चीमुनिं वन्दे कमलापतिनन्दनं । वरदाङ्घ्रिसदासङ्गरसायनपरायणम् ॥
Verse
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमं । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
Verse
नमस्ते हस्तिशैलेश! श्रीमन्नंबुजलोचन! शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥१॥
Verse
समस्तप्राणिसंत्राणप्रवीणकरुणोल्बणाः विलसन्तु कटाक्षस्ते मय्यस्मिन् जगतां पते ॥२॥
Verse
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः । पापीयांसममर्यादं पाहि मां वरद प्रभो ॥३॥
Verse
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे । विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥४॥
Verse
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले । कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥५॥
Verse
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् । क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥६॥
Verse
संतप्तं विविधैर्दु:खैः दुर्वचैरेवमादिभिः । देवराज! दयासिन्धो! देव! देव्! जगत्पते ॥७॥
Verse
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः । कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥८॥
