Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

kaivalyāṣṭakam

कैवल्याष्टकम्

Verse

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलं । पावनं पावनेभोऽपि हरेर्नामैव केवलम् ॥१॥

Verse

आब्रह्मस्तंबपर्यन्तं सर्वं मायामयं जगत् सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥

Verse

स गुरुः स पिता चापि सा माता बान्धवोऽपि सः शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥

Verse

निःश्वासे नहि विश्वासः कदा रुद्धो भविष्यति कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥

Verse

हरिः सदा वसेत्तत्र यत्र भागवता जनाः गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥

Verse

अहो दुःखं महादुःखं दु:खात् दुःखतरं यतः काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥

Verse

दीयतां दीयतां कर्णो नीयतां नीयतां वचः गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥

Verse

तृणीकृत्य जगत्सर्वं राजते सकलोपरि चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥८॥

śrīvaradarājāṣṭakam
narmadāṣṭakam

Read next

More on कैवल्याष्टकम्

  • कैवल्याष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms